________________
प्रथमस्थितिद्वितीयस्थित्योदलावस्थानम् ] किट्टिवेदनाद्वाधिकारः
[ २३९ 'चरिमणिसेगा' इत्यादि, चरमनिषकात्' वेद्यमानसंग्रहकिट्टिप्रथमस्थितेश्वरमनिषेकतो 'द्वितीयप्रथमे' वेद्यमानसंग्रहकिट्टिद्वितीयस्थितिप्रथमनिषेके दलिकमसंख्येयगुणं भवति,प्रथमस्थितेर्यश्चरमनिपेकः, तस्योपर्यन्तरकरणं परित्यज्य द्वितीय स्थितेयः प्रथमनिषकः, तस्मिन् प्रथमस्थितिचरमनिपेकतोऽसंख्येयगुणं दलं भवतीत्यर्थः । कथमेतदवसीयते? इति चेत्, उच्यते-वेद्यमानसंग्रहकिट्टिप्रदेशसत्कर्मणोऽसंख्येयभागमात्रं दलं द्वितीयस्थितितः संख्यातगुणहीनायां प्रथमस्थितौ यथाविभागं प्रक्षिप्तम्, सत्तागतदलाऽसंख्येयभागस्योत्कीर्णत्वात् । द्वितीयस्थितौ तु बह्वसंख्येयभागमात्रदलं द्वितीयस्थितेः संख्येवावलिकामात्रत्वेन प्रथमस्थितितः संख्यातगुणायां विशेषहीनक्रमेण तिष्ठति । तेन प्रथमस्थितिचरमनिषेकतो द्वितीयस्थितिप्रथमनिषेकेऽसंख्येयगुणं दलं भवति । किञ्च प्रथमस्थितिं कुर्वता प्रथमस्थितिचरमभिषेकतो द्वितीयस्थितिप्रथमनिषेकेऽसंख्येयगुणं दलिकं प्रक्षिप्तम्, तेनाऽपि सिध्यति-प्रथमस्थितिचरमनिषेकतो द्वितीयस्थितिप्रथमनिषेकेऽसंख्येयगुणं दलं भवतीति ।
अथ द्वितीयस्थितेर्दितीयादिनिपेकेषु दलिकावस्थानं दर्शयति-'उवरि' इत्यादि' 'उपरितु' वेद्यमानसंग्रहकिट्टिद्वितीयस्थितिप्रथमनिपेकस्योपरि तु 'विशेषोनं' विशेषहीनक्रमेण दलिकं भवति । इदमुक्त भवति-वेद्यमानसंग्रहफिट्टिद्वितीयस्थितेः प्रथमनिषेकतो द्वितीयस्थितिद्वितीयनिषेके विशेषहीनं दलिकं भवति, ततोऽपि तृतीयनिके विशेषहीनं दलमवतिष्ठते, एवं विशेषहीनक्रमेण तावद्वक्तव्यम् , यावद् वेद्यमानसंग्रहकिट्टिद्वितीयस्थितेश्वरमनिषेकः । यदुक्तं कषायप्राभतचो—“जं किटिं वेदयदे, तिस्से उदयहिदीए पदेसग्गं थोवं, विदियाए हिदीए पदेसग्गमसंखेजगुणं । एवमसंखेजगुणं जाव पढमहिदीए चरिमहिदि त्ति । तदो विदियहिदीए जा आदिद्विदी, तीसे असंखेजगुणं, तदो सव्वत्थ विसेसहीणं।” इति।
इयं तु संग्रहगाथा । संग्रहगाथा नाम संक्षेपगाथा, सर्वासां वेद्यमानकिट्टीनां दलिकावस्थानस्यैकयैव गाथया कथनात् । प्रकृते तु क्रोधप्रथमसंग्रहकिट्टया वेद्यमानत्वात् क्रोधप्रथमसंग्रहकियाः प्रथमस्थितौ दलिकमसंख्येयगुणक्रमेण तिष्ठति, ततः प्रथमस्थितेश्वरमनिषेकतो द्वितीयस्थितेः प्रथमनिषेके-ऽसंख्येयगुणं तिष्ठति, ततो विशेषहीनक्रमेण तावद्वक्तव्यम् , यावत् क्रोधप्रथमसंग्रहकिट्टिद्धितीयस्थितेश्वरमनिपेकः । अयमों यथास्थानं क्रोधद्वितीयादिवेद्यसंग्रहकिट्टिप्ररूपणावसरे भावनीयः।
अवेद्यमानसंग्रहकिट्टयास्तु प्रथमस्थित्यभावाद् द्वितीयस्थितिप्रथमनिषेकतः प्रभृति चरमनिषेकं यावत् प्रदेशाग्र विशेषहीनक्रमेण तिष्ठति । तदेवं दर्शितं संग्रहकिट्टियनन्तरोपनिधया दलिकावस्थानम्। सम्प्रति परम्परोपनिधया तत् प्रतिपाद्यते, सर्वासां वेद्यमानाऽवेद्यमानसंग्रहकिट्टीनां द्वितीयस्थितेश्वरमनिषेकतः प्रथमनिषेकेऽसंख्येयभागाधिकं दलं भवति, स्थितिसत्कर्मणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org