SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २३८ ] खवगसेढी [ गाथा-११८ अथ किट्टिवेदनाद्धायाः प्रथमसमये द्वितीयस्थितिगतकोवप्रथमसंग्रहकिट्टितः प्रदेशान समाकृष्य प्रथमस्थितिं करोति । वेदनकालस्य पश्चानुपूर्व्या विशेषाधिकत्वेन वक्ष्यमाणत्वात् क्रोधवेदनकालस्य साधिकत्रिभाग क्रोधप्रथमसंग्रहकिट्टिवेदनकालतश्चाऽऽवलिकयाऽधिककाले क्रोधप्रथमसंग्रहकिदृथाः प्रथमस्थितिं करोति । तत्र दलनिक्षेपविधिश्वाऽयम्-उदयनिषेके स्तोकं दलं प्रक्षिपति, ततोऽनन्तरनिषेकेऽसंख्येयगुणं प्रक्षिपति । ततोऽप्यसंख्येयगुणं तृतीयनिषेके प्रक्षिपति । एवमसंख्येयगुणक्रमेण तावत् प्रक्षिपति, यावत् क्रोधप्रथमसंग्रहकिहिवेदनकालत आवलिकयाऽधिकां स्थिति प्राप्नोति । ततो द्वितीयस्थितिगतप्रथमनिषेकेऽसंख्येयगुणं दलिकं प्रक्षिपति । तत ऊर्ध्व विशेषहीनक्रमेण प्रक्षिपति । यस्मिन् समये क्रोधप्रथमसंग्रहकिट्टिप्रथमस्थितिं करोति, तस्मिन्न व समये क्रोधप्रथमसंग्रहकिट्टि वेदयत्यपि ।। ___अथ किट्टिवेदनाद्धाप्रथमसमये स्थितिबन्धं भणति-'बंधो' इत्यादि, बन्धः' स्थितिबन्धः मोहस्य' मोहनीयकर्मणस्तु'चतुर्मासाः' चातुर्मासिको भवति, प्राक्तनसमये योऽन्तमुहूर्ताऽधिकचातुर्मासिको जायते स्म, स इदानीमन्तमुहूर्तेन हीनो भूत्वा चातुर्मासिको जायत इत्यर्थः। 'परेषां' ज्ञानावरण-दर्शनावरणा-ऽन्तराय-नाम-गोत्र-वेदनीयरूपाणां कर्मणां बन्धः पूर्वोक्तो भवति, पञ्चदशाधिकशततमगाथया शेषकर्मणां संख्येयवर्षसहस्राणि यः स्थितिबन्धः प्रोक्तः, स किट्टिवेदनप्रथमसमयेऽपि संख्येयसहस्रवर्षाणि भवति, किन्तु पूर्वतः संख्येयगुणहीनो भवतीत्यर्थः । उक्त च कषायप्राभृतचूर्णी-"किहोणं पढमसमयवेदगस्स संजलणाणं ठिदिबंधो चत्तारि मासा, णामगोदवेदणीयाणं चेव घादिकम्माणं ठिदिबंधो संखेज्जाणि वस्ससहस्साणि।" इति ॥११७|| किट्टिवेदनाद्धाप्रथमसमये प्रथमस्थितिमुक्त्वा सम्प्रति प्रथमस्थितौ द्वितीयस्थितौ च दलिकावस्थानं प्रारूपयिषुः संग्रहगाथां भणतिवेइज्जमाण किट्टीअ दलमसंखगुणणाअ पढमठिईए। चरिमणि सेगा बीयपढमे असंखगुणमुवरि तु विसेसूणं ॥११८॥ (गीतिः) वेद्यमानकिट्टया दलमसंख्यगुणनया प्रथमस्थितौ।। चरमनिषकाद् द्वितीयप्रथमेऽसंख्यगुणमुपरि तु विशेषोनम् ॥११८॥ इति पदसंस्कारः 'वेइज्ज०' इत्यादि, वेद्यमानकिट्टयाः' या संग्रहकिट्टिद्यते, तस्याः 'प्रथमस्थितौ' आदिमस्थितौ 'दलं' प्रदेशाग्रम् 'असंख्यगुणनया' असंख्येषगुणकारेण भवतीति शेषः, असंख्येयगुणक्रमेण प्रथमस्थितौ दलिकस्य प्रक्षिप्तत्वात्, वेद्यमानसंग्रहकिट्टया उदयनिषेके स्तोकं दलं भवति, ततो द्वितीयनिषेकेऽसंख्येयगणं भवति, ततोऽपि तृतीयनिषेकेऽसंख्येयगुणं भवति, एवमसंख्येयगुणक्रमेण तावद् वक्तव्यम् , यावद् वेद्यमानसंग्रहकिट्टिप्रथमस्थितेश्वरमनिषेक इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy