SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ क्रोधप्रथम संग्रह किट्टिप्रथम स्थिति: ] किट्टवेदनाद्धाधिकारः [२३७ अथ “यथोद्देशं निर्देशः " इति न्यायेन क्रमप्राप्त षष्ठमधिकारं किट्टिवेदनाद्धाख्यं विवर्णयिपुराह तत्तो य कोहपढमं ओकड्ढित्त करेइ पढमठि । वेयइ बंधो मोहस्स उ चउमासा पराण पुव्वत्तो ॥ ११७ ॥ (गीतिः) • ततश्च क्रोधप्रथमामपकृष्य करोति प्रथमस्थितिम् । वेदयतिबन्ध मोहस्य तु चतुर्मासा परेषां पूर्वोक्तः ॥ ११७ ॥ इति पदसंस्कारः । ' तत्तो' इत्यादि, 'ततश्च' किट्टिकरणाद्धाचरमसमयाच्चाऽनन्तरं क्षपकः ' क्रोधप्रथमां' क्रोधप्रथमसंग्रह किट्टिमपकृष्य प्रथमस्थिति 'करोति' निर्वर्तयति 'वेदयति' अनुभवति च । अत्र चशब्दाभावेऽपि चशब्दार्थः समुच्चयः प्रतीयते । यथा अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥१॥ इत्यत्र चशब्दमन्तरेणाप्येकस्यां नयनक्रियायां गवादीनां समुच्चीयमानतया समुच्चयप्रतीतिरस्त्येव, तथा प्रस्तुतेऽपि क्षपकलक्षण एकस्मिन् कर्तरि करण-वेदन क्रिययोः समुच्चयश्चशब्दं विनाऽपि प्रतीयत इति भावः । उक्तं च सप्ततिकाचूर्णी- “किट्टोकरण डाए निट्ठिदाए कोहेण पडिवण्णो सेकाले पढमकिट्टीदलियं विदियठिदिगयं उक्कड्ढेत्तु पढमठितियं करेइ वेदेह य ।" इति । Jain Education International इदमत्र हृदयम्-किट्टिकरणाद्वायां क्रोधादीनां या प्रभूताऽनुभागका तृतीया संग्रहकिट्टिरासीत्, सा किट्टिवेदकस्य प्रथमा संग्रह किट्टिर्ज्ञातव्या, एवं किट्टिकारस्य या प्रथमा संग्रह किट्टिरासीत्, सा किट्टिवेदकस्य तृतीया संग्रहकिट्टिबद्धव्या, पश्चानुपूर्व्या संग्रहकट्टीनां वेदनात् । न च किट्टि - करणाद्धायां या प्रथमसंग्रह किट्टिरासीत्, सैवाऽत्र ग्रहीतव्या, विपर्यासस्य गौरवादिति वाच्यम्, विरोधोपलम्भात् । तथाहि त्रक्ष्यत एकविंशत्यधिकशततमया (१२१) गाथया क्रोधादीनां वेद्यमानायाः संग्रह किया असंख्येयवहुभागा वध्यन्ते वेद्यन्ते चेति । तत्र बन्ध उदयश्चाऽनुभागमाश्रित्य प्रतिसमयमनन्तगुणहीनक्रमेण प्रवर्तेते । तेन किट्टिकारस्य या प्रभूतानुभागका तृतीया संग्रह किट्टिः सैवादौ वेदवितव्या, अन्यथा प्रथम संग्रह किट्टिवेदनाद्वायां पूर्णायामनन्तरसमये द्वितीयसंग्रह किट्टिं वेदयंस्तस्या बहुसंख्येयभागान् बध्नीत वेदयेच्च । तथा च सति तात्कालिको बन्धोदयावनुभागमाश्रित्य पूर्वसमयतोऽनन्तगुणी प्रसज्येताम् किट्टिकारस्य प्रथम संग्रह किट्टितो द्वितीय संग्रह किट्टया अनन्तगुणत्वात् । न च तदिष्यते, प्रतिसमयमनन्तगुणविशुद्धयां प्रवर्धमानस्य किट्टिवेदकस्य बन्धोदययोरनुभागमाश्रित्याऽनन्तगुणहीनत्वात् । न चात्रादौ तृतीयसंग्रहकिट्टि वेदयतीत्युच्यतामिति वाच्यम् पूर्वमहर्षिभिः कषायप्राभृतचूर्णिकारसप्ततिकाचूर्णिकारादिभिः प्रथमं प्रथमसंग्रह किट्टिं वेदयति, ततो द्वितीयां ततस्तृतीयामित्युतत्वाद् इति दिग् । " For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy