________________
२३४ ]
खगढी
[ गाथा-- ११५
सम्प्रति किट्टिकरणाद्धायाः समाप्तिमभिधत्ते - ' पढमहिईअ' इत्यादि, 'प्रथमस्थित ' पूर्वा पूर्वस्पर्धकतया विद्यमानस्य संज्वलनक्रोधस्य प्रथमस्थित्यामावलिकाशेषायां 'समत्ता' ति अद्धा - प्रस्तुतत्वात् किट्टिकरणाद्धा समाप्ता भवति । निगदितं च कषायप्राभृतचूर्णौ - "किट्टीकरणडा गिट्ठायदि पढमट्ठिदोए आवलियाए सेसाए ।” इति ॥ ११४ ॥ अथ किट्टिकरणाद्धाचरमसमये स्थितिबन्धं व्याजिहीर्षु राह किकरणस्स चरिमे बंधो मोहस्स चउमासा ।
अंतोमुहुत्तअहिया पराण संखियसहस्सवासाई ॥ ११५ ॥ (उद्गगीतिः)
किट्टिकरणस्य चरमे बन्धो मोहस्य चतुर्मासाः ।
अन्तर्मुहूर्ताधिकाः परेषां संख्यसहस्रवर्षाणि ॥ ११५ ॥ इति पदसंस्कारः ।
'ago इत्यादि, 'किट्टिकरणस्य किट्टिकरणाद्वायाः 'चरमे' चरमसमये 'मोहस्य' संज्वलन - चतुष्कस्य प्रत्येकं बन्धः' स्थितिबन्धोऽन्तमुहूर्त्ताधिकाञ्चतुर्मासा भवति । व्याहारि च कषायप्राभृतचूर्णी - "किट्टीकरणडाए चरिमसमए संजलणाणं ठिदिबंधो चत्तारि मासा अंतोमुहुत्त भहिया ।" इति ।
ननु गाथायां चतुर्मासा इति समस्त निर्देशोऽसाधुः, यतो "विशेषणं विशेष्येणैकार्थ कर्मधारयश्च" (सिद्धम०३ - १ - ९६ ) इति सूत्रेण कर्मधारय समाससिद्धौ 'संख्या समाहारे च द्विगुश्चानाम्न्ययम्” (सिद्धहेम ०३ - १ - ९९ ) इत्येतत्सूत्रारम्भो नियमार्थः । नियमाकारचऽयम् - - संख्यावाचि परेण नाम्ना समाहारसंज्ञातद्वितोत्तरपद एव समस्यते, नाऽन्यथा । तेन चत्वारो मासा इति चतुर्मासा इति समासो 'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च" ( सिद्धहेम०३-१-९९ ) इत्यनेन सूत्रेणाऽपि न भवेत् यथाऽष्टौ प्रवचनमातर इति चेत्, मैत्रम्, चतुःसंख्यका मासा इति मध्यमपदलोपाच्चतुर्मासाः । अयं भावः - आदौ चतुश्शब्दस्य संख्याशब्देन सह बहुब्रीहिसमासः, ततश्चतुः संख्यकशब्दस्य मासशब्देन कर्मधारय समासो मध्यमपद लोपश्वेति न कविद् दोषः । अश्वकर्णकरणाद्धायाश्वरमसमये योऽष्टवर्पप्रमाणः स्थितिबन्ध आसीत् स प्रतिस्थितिबन्धाद्धं हीनो हीनतरो भवन् किट्टिकरणाद्धाचरमसमयेऽन्तर्मुहूर्ताधिकचतुप्रमाणो भवतीत्यर्थः ।
'पराण' इत्यादि, 'परेषां मोहनीयवर्णानां ज्ञानावरणादीनां षण्णां स्थितिबन्धः संख्यसहस्रवर्षाणि भवति । उक्तं च कषायप्राभृतचूर्णो — “सेसाणं कम्माणं ठिदिबंधो संखेज्जाणि वस्ससहस्साणि ।" इति । अथकर्णकरणाद्धाचरमसमये यः संख्येयवर्षसहस्रप्रमाणः स्थितिबन्धः शेषकर्मणामासीत्, स संख्येयगुणेन हीनो हीनतरो भवन्निदानीमपि संख्येयवर्ष - सहस्रमात्रो भवति, संख्येयसहस्राणां संख्येयभेदत्वादित्यर्थः ॥ ११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org