SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [ २३३ किट्टिकरणाद्धायां रसवेदनम्] किट्टिकरणाद्धाधिकारः साम्प्रतं मनुष्यगत्यादिमार्गणासु सातोदयादिस्थानेषु च बद्धदलं सत्कर्मणि नियमतो यद् विद्यते, तत् सर्वकिट्टिषु प्रक्षिप्तं भवतीत्येतदभिधातुकाम आह खवगाणं संते णियमत्तो कहियदलिअं तु वट्टइ। सबट्टिईसु तह सव्वासुकिट्टीसु णियमेणं ॥११३॥ क्षपकाणां सत्तायां नियमतः कथितदलिकं तु वर्तते। सर्वस्थितिषु तथा सर्वासु किट्टिषु नियमेन ॥११३।। इति पदसंस्कारः । 'खवगाणं' इत्यादि, 'क्षपकाणां' किट्टिकाराणां किट्टिवेदकानां चेत्यर्थः, सत्तायां नियमतः 'कथितदलिक' मनुष्यगत्यादिमार्गणासु सातोदयादिस्थानेषु च बद्धत्वेन कथितं प्रदेशाग्रंतु 'सर्वस्थितिषु' मोहनीयस्य जघन्यस्थितितः प्रभृत्युत्कृष्टस्थितिं यावत् सर्वस्थितिस्थानेषु तथा सर्वासु किट्टिषु लोभप्रथमावान्तरकिट्टित आरभ्य क्रोधचरमाऽवान्तरकिट्टि यावत् सर्वावान्तरकिट्टिषु 'नियमेन' अभजनया वर्तते । उक्त च कषायप्राभृते "एदाणि पुव्वबद्धाणि होति सव्वेसु हिदिविसेसेसु। सव्वेसु चाणुभागेसु णियमसा सव्वकिट्टीसु ॥१॥इति । यासु मार्गणासु बद्धकर्मदलिकं भजनया भवति, तासु बद्धदलं जघन्यत एकस्थित्यामेकावान्तरकिट्टौ च विद्यते, तत एकोत्तरवृद्धिक्रमेणोत्कृष्टतः सर्वस्थितिषु सर्वावान्तरकिट्टिषु च विद्यत इत्यपि ज्ञातव्यम् ॥११३॥ किट्टिकरणाद्धायां वर्तमानो जीव किं स्पर्धकानि वेदयते? उत किट्टीरप्यनुभवति? इत्याशङ्काव्युदासाय प्राह किट्टीकरणे पुवापुब्वाइं फड्डगाणि अणुहवइ ॥ पढमट्टिईअ आवलिंगासेसाए समत्तद्धा ॥११४॥ किट्टिकरणे पूर्वापूर्वाणि स्पर्धकान्यनुभवति । प्रथमस्थित्यामावलिकाशेषायां समाप्ताद्धा ॥११४।। इति पदसंस्कारः। 'किट्टी' इत्यादि, 'किट्टिकरणे' किट्टिकरणाद्धायां वर्तमानः क्षपकः पूर्वापूर्वाणि स्पर्धकानि' पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च 'अनुभवति' वेदयते, किट्टीस्तु न वेदयते । यदभिहितं कषायमाभृतचूर्णी-"किट्टीओ करेंतो पुव्वफद्दयाणि अपुव्वफद्दयाणि च वेदेदि, किट्टीओण वेदयदि ।” इति । यथाऽश्वकर्णकरणाद्धायामपूर्वस्पर्धकानि कुर्वाणः क्षपकः पूर्वस्पर्धकैः सहा- पूर्वस्पर्धकान्यपि वेदयति स्म, तथा किट्टिकरणाद्धायां किट्टीनिवर्तयन् किट्टीनं वेदयति, किन्तु किट्टिकरणाद्धायामपि पूर्ववत् पूर्वापूर्वस्पर्धकानि वेदयतीति फलितार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy