________________
२३० ]
aaraढी
एगुत्तरवुड्ढी संखतसभवेसु बद्धदलमत्थि । संतम्मि सव्वलिंगेसु कम्म सिप्पगुरुठिइरसेसु वा ॥ ११२ ॥ ( गीतिः )
एकोत्तरवृद्धया संख्यत्रसभवेषु बद्धदलमस्ति ।
सत्तायां सर्वलिङ्गेषु कर्मशिल्पगुरुस्थितिरसेषु वा ||११२ || इति पदसंस्कारः ।
'एगुत्तरवुड्ढीए' इत्यादि, एकोत्तरवृद्ध्या 'सङ्ख्यत्र स भवेषु' सङ्ख्यामर्हन्तीति संख्या 3, 'दण्डादेर्यः' (सिद्धहेम ० ६-४-१६८) इति सूत्रेण यप्रत्ययः, संख्येया इत्यर्थः तेषु सभवेषु बद्धदलं क्षपकस्य सत्तायाम् 'अस्ति' भवति । तद्यथा - यः कचिज्जीन एकेन्द्रियतो निर्गत्य मनुष्यत्वेन समुत्पन्नो मरुदेव्यादिवत् क्षपकश्रेणिमारोहति, तस्य जीवस्य सत्तायामेकस्मिंस्त्र सभ बद्धदलं विद्यते । यः कचिज्जीव एकेन्द्रियतो निर्गत्य त्रसत्वेनोत्पद्यते, ततो मृत्वा मनुष्यत्वेनोत्पन्नः क्षपकश्रेणिं प्रतिपद्यते । तस्य जीवस्य सत्कर्मणि सभवये बद्धदलं वर्तते । एवं त्रिषु चतुर्षु यावत् तत्प्रायोग्यसंख्यातेषु निरन्तरत्रसभवेषु बद्धदलं सत्कर्मणि विद्यते, संख्येयवधिकसागरोपमसहस्रद्वयलक्षण कावस्थितौ निरन्तरं संख्येयत्रतभवेभ्योऽविकानामसंभवात् । उक्तं च कषायप्राभृते
[ गाथा-- ११२
"एइंदियभवरगहणेहिं असंखेज्जेहिं णियमसा बद्धं । एगादेगुत्तरियं संखेज्जेहि य तसभवेहिं ॥ | १ ||" इति ।
Jain Education International
कस्थानकालाभ्यन्तरेऽसंख्येया अपि भवा संभवन्ति, कर्माऽवस्थानकालेsसंख्येयवारान् यावद् देशविरतिप्राप्तेः, देशविरतेच सभव एव लाभादिति वाव्यम्, अत्र नैरन्तर्येणैकाधिकक्रमेण त्रसभवानां व्याख्यानात्, असंख्येयवारान् यावद् देशविरतिप्राप्तेस्तु स्थावरभवैरन्तरयित्वा निर्दिष्टत्वात् ।
अथ लिङ्गादिषु बद्धदलं सत्कर्मणि भजनया दर्शयति- 'सव्वलिंगेसु' इत्यादि, सर्वलिङ्गषु बदलं क्षपकस्य सत्कर्मणि 'वा' विभावया विद्यते, लिङ्गशब्देनात्र तापस-परिव्राजक -यत्यादिद्रव्यलिङ्गानां ग्रहणं कर्तव्यम् । तत्र यो जन्तुः कर्माऽवस्थानकालाभ्यन्तरे तापसलिङ्गमप्रतिपद्य क्षपकश्रेणिमारोहति, तस्य सत्कर्मणि तल्लिङ्ग बद्धदलं न विद्यते, येन कर्माऽवस्थानकालाभ्यन्तरे तापसलिङ्ग प्रतिपद्य क्षपकश्रेणिः प्रतिपन्ना, तस्य सत्कर्मणि तल्लिङ्ग बद्धं दलं नियमतो विद्यते । एवं मरुदेव्यादिवद् भवचक्र कर्माऽवस्थानकालाभ्यन्तरे यतिलिङ्गमप्रतिपद्य यः क्षपकश्रेणिं प्रतिपद्यते, तस्य सत्कर्मणि यतिलिङ्ग े बद्धदलं न विद्यते, यः पुनर्थतिलिङ्ग' कर्माऽवस्थानकालाभ्यन्तरे प्रतिपद्य क्षपकश्रेणिमारोहति, तस्य सत्कर्मणि निरुक्तलिङ्ग बद्धदलं नियमतो विद्यते । एवं शेषलिङ्गपु भजना भावनीया । यदस्यधायि कषायप्रोभृतचूर्णो - "सव्वलिंगेसु भज्जाणि ।” इति ।
For Private & Personal Use Only
www.jainelibrary.org