SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २२८ ] खवगसेढी [गाथा-११०-१११ केवलदुगअभवियसुहुमअहक्खायेसु णियमत्तो।। बद्धपोसा णत्थि य संते संभवअभावत्तो ॥११०॥ (उपगीतिः) केवलद्विकाऽभव्यसूक्ष्मयथाख्यातेषु नियमतः । बद्धप्रदेशा न सन्ति च सत्तायां संभवा-ऽभावात् ॥११०॥ इति पदसंस्कारः । 'केवलदुगः' इत्यादि, कृतद्वन्द्वाः सप्तम्या निर्दिष्टाः केवलद्विकादयः। तत्र 'केवलद्विके' केवलज्ञानकेवलदर्शनलक्षणे बद्धप्रदेशाः किट्टिकाराणां किट्टिवेदकानां च सत्तायां नियमतो 'न सन्ति' न भवन्ति । अयम्भावः-जीवः सयोगिगुणस्थानकं लब्ध्चैव केवलज्ञानं केवलदर्शनं च प्राप्नोति, अनेन क्षपकेण तु न कदापि सयोगिगुणस्थानकमासादितम्। किञ्च सयोगिगुणस्थानके मोहनीयवन्धसंभवोऽपि नास्ति, अनिवृत्तिवादरसम्परायचरमसमये तद्विन्छेदात् । अतो-ऽनयो योर्मार्गणयोर्बद्धदलं सत्कर्मणि नियमतो न विद्यते । _ 'अभविय' ति अभव्यमार्गणायां बद्धप्रदेशाः क्षपकस्य सत्कर्मणि नियमतो न विद्यन्ते, अभव्यस्य सिद्धिगमनाऽयोग्यत्वेन क्षपकश्रेणिप्रतिपत्यसं नवात् । ___ 'सहुम' त्ति "भीमो भीमसेनः” इति न्यायात् मूक्ष्मसम्परायसंयममार्गणायां बद्धदलं क्षपकस्य सत्कर्मणि नियमेन न विद्यते, संभवाभावात् । न च कर्माऽवस्थानकालाभ्यन्तरयुपशमश्रेणिमारुह्य सूक्ष्मसम्परायगुणस्थानकमासादितवतो जीवस्य निरुक्तमार्गणायां बद्धदलं सत्कर्मणि कुतो न संभवति ? इति वाच्यम् , मोहनीयदलस्येष्टत्वेन मूक्ष्मसम्परायमार्गणायां मोहनीयस्य बन्धाभावात् । एवमग्रेऽपि । ____ यथाख्याते-यथाख्यातसंयममार्गणायां बद्धदलं सत्कर्मणि नियमेन न विद्यते । कुतः ? इति चेत्, उच्यते-यथाख्यातसंयम उपशान्तमोहादिगुणस्थानकेषु प्राप्यते । न च तत्र मोहनीयबन्धोऽस्ति, तेन तत्र बद्धदलं क्षपकस्य सत्कर्मणि न भवति । ननु निरुक्तपञ्चमार्गणासु बद्धप्रदेशाः सत्कर्मणि कुतो न विद्यन्ते ? इत्यत आह-संभवअभावत्तो' त्ति सम्भवाभावात् । सुगममेतद् व्याख्यातत्वात् ॥११०॥ चतुर्दशमार्गणानामुत्तरमार्गणास्थानेषु बद्धदलं सत्कर्मणि चिन्तयित्वा सम्प्रति येषु सातोदयादिस्थानेषु बद्धमोहनीयदलं नियमतः क्षपकस्य सत्तायां विद्यते, तानि सङ्ग्रह्य प्राह सायासायेसुपज्जत्तापज्जत्तगेसु च । एगिदियाण च असंखिज्जेसु भवेसु णियमत्तो ॥१११॥(उपगीतिः) सातासातयोः पर्याप्तापर्याप्तकयोश्च । एकेन्द्रियाणाञ्चाऽसंख्येयेषु भवेषु नियमतः ॥१११॥ इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy