SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ मार्गणासु बद्धं भजनीयं दलम् ] किट्टिकरणाद्धाधिकारः [ २२७ 'ओहिविहंगमणस्सु'त्ति, तत्र 'ओहि' ति अवधिज्ञाने, न तु स्ववधिदर्शनमार्गणायाम्, विभङ्गसाहचर्यात्, विभङ्गज्ञाने, 'भीमो भीमसेनः' इति न्यायेन मनः शब्दाद् मनः पर्यायज्ञाने च, न तु मनोयोगे, तत्रा - भजन यो क्तत्वात् बद्धदलं विभाषया क्षपकस्य सत्कर्मणि विद्यते । निरुक्तमार्गणास्थानत्रये कर्माऽवस्थानकालाभ्यन्तरेऽवश्यंभाविगमनाविरहात् । उक्तं च कषायप्राभृतचूर्णो- "ओहिणाणे अण्णाणे मणपज्जवणाणे एदेसु तिसु उवजोगेसु पुव्ववाणि भजियव्वाणि ।" इति । 'तह देस' त्ति तथा देशविरतिमार्गणायाम् 'परिहार' त्ति पदैकदेशेन पदसमुदायस्य गम्यत्वात् परिहारविशुद्धिकसंयममार्गणायां छेदे-छेदोपस्थापनसंयममार्गणायां च बद्धदलं क्षपकस्य सत्कर्मणि विभावया विद्यते । कथमेतदवबुध्यते ? इति चेत्, उच्यते - निरुक्तमार्गगास्थानान्यप्राप्याऽथवा प्राप्याऽपि कर्माऽवस्थानकालमविरत्यादिमार्गणासु व्यतिक्रम्य क्षपकश्रेणिमविगतस्य जन्तोः सत्कर्मणि निरुक्तमार्गणासु बद्धदलं न विद्यते यस्तु निरुक्तमार्गणास्थानानि समधिगत्य कर्माऽवस्थानकालाभ्यन्तरे क्षपकश्रेणिमारोहति, तस्य सत्कर्मणि देशविरत्यादिमार्गणासु बद्धदलं नियमेन विद्यते । 'ओहिग०' इत्यादि, तत्र 'ओहिग' त्ति अवधिदर्शनमार्गणायाम्, 'मिस्स' त्ति मिश्रमार्गणायां च बद्धलं क्षपकस्य सत्कर्मणि भजनया विद्यते कर्माऽवस्थान कालाभ्यन्तर एतयोर्मार्गणास्थानयोः प्राप्तौ नियमाभावात् । उक्त च कषायप्राभृते - " अह ओहिदंसणे पुण उवजोगे होंति भजाणि । XXX मिस्सगे भज्जा ।" इति । 'आसायण' त्ति आस्वादन सम्यक्त्वमार्गणायां बद्धदलं विभाषया सत्कर्मणि विद्यते, कर्माsaस्थानकालाभ्यन्तरे निरुक्तमार्गणाया लाभे नियमानुपलम्भात् । अनाहारके - अनाहारकमार्गणायां बद्धदलं सत्कर्मणि भजनया विद्यते, संसारावस्थायामाहारकमार्गणाया विग्रहगतावेव लाभाद् विग्रहगते श्चोत्कृष्टान्तरस्याऽसंख्येयोत्सर्पिण्यवसfर्पणीका उमात्रत्वेन कर्मावस्थानका लाभ्यन्तरे प्रकृतमार्गणाया अवश्यंभावविरहात् । इत्थं सप्तविंशतिमार्गणास्थानेषु वद्धदलं प्रस्तुतक्षपकसत्कर्मणि विभावया वर्तते, कर्मावस्थानकाले निरुतमार्गगागमननियमाभावात् ॥ १०८ - १०९ ॥ अथ येषु पञ्चमार्गणास्थानेषु बद्धदलं नियमतः सत्कर्मणि न विद्यते, तान्यभिधित्सुराह तथा चोक्त' जयधवलाकारैरपि - "सासरणसम्माइट्टिरणा च बद्धारिण भयरिगज्जाणि त्ति एसो fa प्रत्थो एत्थ वक्खायव्वो, मिस्सरिणद्द सस्सेदस्स देसामासयभावेण पवृत्तिप्रब्भुवगमादो ।" इति । Jain Education International For Private & Personal Use Only "2 www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy