________________
२२६ ]
aarसेढी
[ गाथा - १०८-१०९
'विगल' त्ति विकलेषु- द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणमार्गणास्थानेषु बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि विभाषया तिष्ठति । कथमेतदवगन्तव्यम् ? इति चेत्, उच्यतेद्वीन्द्रियादितयाऽनुत्पद्यैकेन्द्रियत आगतस्य क्षपकश्रेणिं प्रतिपन्नस्य जन्तोः सत्कर्मणि द्वीन्द्रियादिमार्गणासु बद्धकर्मदलं न विद्यते, अथवा विकलेन्द्रियतयोत्पद्यैकेन्द्रियभवेषु कर्माऽवस्थानकालं ततोऽपि वाऽधिककालं व्यतिक्रम्य क्षपकश्रेणिमारूढस्य सत्कर्मणि द्वीन्द्रियादिमार्गगासु बद्धदलं न विद्यते । यः पुनद्वन्द्रियादितया समुत्पद्य कर्मावस्थानकालाभ्यन्तरे मनुष्यगतौ क्षपकश्रेणि प्रतिपद्यते, तस्य सत्कर्मणि द्वीन्द्रियादिमार्गणासु बद्धकर्मदलमुपलभ्यते, कर्माऽवस्थानकालस्यानतिक्रान्तत्वात् ।
'पुढat' त्ति पृथिवीकाये बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि भजनया विद्यते । तद्यथा - यः कचिज्जन्तुः पृथिवी कायमगत्वाऽथवा गत्वाऽप्यन्यत्राऽप्कायादिषु कर्माऽवस्थानकालं परिपाल्य मनुष्यगतौ क्षपकश्रेणिं समारोहति, तस्य सत्कर्मणि पृथिवीकाय मार्गणायां बद्धदलं न विद्यते, यः पुनः पृथिवीकायं गत्वा कर्माऽवस्थानकालाभ्यन्तरे मनुष्यगतौ क्षपकश्रेणिमारोहति, तस्य सत्कर्मणि पृथिवीकाय मार्गणायां बद्धदलं नियमेन विद्यते । 'जलानलपवण' त्ति 'जले' अकायमार्गणायाम् 'अनले' तेजःकाय मार्गणायां 'पवने' वायुकायमार्गणायां च बद्धदलं क्षपकस्य सत्कर्मणि विभाषया वर्तते । भावना तु पृथिवीकायवत् कार्या । 'वनस्पती' वनस्पतिकायमार्गणायां च बद्धकर्मदलं क्षपकस्य सत्कर्मणि भजनया भवति । कथमेतदवगम्यते ? इति चेत्, शृणुतवनस्पतिकायतो निर्गतस्याऽन्यत्र पृथिवीकायादौ कर्माऽवस्थानकालं यावत् प्रोष्य मनुष्यगतौ क्षपकश्रेणि प्रतिपन्नस्य सत्कर्मणि वनस्पतिकाये बद्धदलं न विद्यते, यतो वनस्पतिकाये बद्धकर्मदलस्य कर्माऽवस्थानकालोऽतिक्रान्तः । यः पुनर्वनस्पतिकायतो निर्गत्य कर्माऽवस्थानकालाभ्यन्तरे क्षपकश्रेणिं समारोहति, तस्य सत्कर्मणि वनस्पतिकाये बद्धदलं नियमेन विद्यते, बद्धकर्मसम्बन्धिकर्माऽवस्थानका लस्यानतिक्रान्तत्वात् । अभिहितं च कषायप्राभृतचूर्णी - " पुढवि काइय-आउकाइय-ते उकाइय-वाउकाइय-वणप्फदिकाइएस एत्तो एक्केकेण कारण समज्जिदं भजियव्वं ।" इति । ' तथा ' तथाशब्दः समुच्चये, 'वेउव्वाहारगदुगकम्मण० ' इत्यादि, द्विकशब्दः प्रत्येकं सम्बध्यते, वैक्रियद्विकं वैक्रियकाययोगतन्मिश्रकाययोगलक्षणम् आहारककम्=आहारककाययोगाऽऽहारकमिश्रयोगलक्षणं कार्मणकाययोगः पुरुषवेदः स्त्रीवेदश्व, तेषु, बद्धदलं क्षपकसत्कर्मणि भजनया विद्यते, निरुक्तमार्गणास्थानेष्वगत्वाऽथवा गत्वाऽपि कर्माऽवस्थानकालं ततोऽधिकं कालं वा प्रतिपक्षमार्गणास्थानेषूषित्वा क्षपकश्रेणि समारूढस्य सत्कर्मणि निरुक्तमार्गणासु बद्धकर्मदलं न विद्यते । तत्र गत्वा कर्माऽवस्थानकालाभ्यन्तरे क्षपकश्रेणिमारूढस्य तु तत्र बद्धदलं सत्कर्मणि नियमतो विद्यते । व्याहारि च कषायप्राभृतचूर्णौ-"सेसजोगेसु बडाणि भज्जाणि । xxxइत्थीए पुरिसेण सम्मामिच्छाइट्ठिणा च एवं भावभूदेण बडाणि भज्जाणि । " इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org