________________
मार्गणासु बद्धं भजनीयं दलम् ] किट्टिकरणाद्धाधिकारः
[ २२५ न च किट्टिकरणाद्वायां किट्टिवेदकमाश्रित्य प्ररूपणाऽसंगतेति वाच्यम् , प्रकृतप्ररूपणामाश्रित्य किट्टिकारतः किट्टिवेदकं प्रति विशेषाभावेन तस्या अदुष्टत्वात् ॥ १०५-१०६-१०७ ॥
____ अथ यासु मार्गणासु बद्धकर्मदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि विकल्पेन विद्यते, ताः संगृह्य प्राह
निरयसुरविगलपुढवीजलानलपवणवणस्सईसु तह । वेउव्वाहारगदुगकम्मणजोगित्थिपुरिसवेअसु॥१०८॥(गीतिः) ओहिविहंगमणेसु तह देसविरइपरिहारछेअसु। ओहिगदंसणमिस्सासायणणाहारगेसु भयणाए ॥१०९॥ (गीतिः)
निरयसुरविकलपृथिवीजलाऽनलपवनवनस्पतिषु तथा। वैक्रियाहारकद्विककार्मणयोगस्त्रीपुरुषवेदेषु ॥१०८॥
अवधिविभङ्गमनस्सु तथा देशविरतिपरिहारच्छेदेषु । ___अवधिदर्शनमिश्रास्वादनानाहारकेषु भजनया ॥१०९।।इति पदसंस्कारः।
'निरय०' इत्यादि, बद्धप्रदेशाः किट्टिकाराणां किट्टिवेदकानांच सत्कर्मणीति पूर्वतोऽनुवर्तते, तच्च यथास्थानं योजनीयम्। निरयादयः कृतद्वन्द्वा निर्दिष्टाः। भजनयेति सर्वत्र सम्बध्यते । तथाहिनिरये-नरकगतौ सुरे-देवगतौ च बद्धप्रदेशाः किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि 'भजनया' विभाषया विद्यन्ते, कस्यचित् क्षपकस्य सत्कर्मणि विद्यन्ते, कस्यचित् पुनर्न विद्यन्त इत्यर्थः । उक्तंच कषायप्राभूतचूर्णी-"देवगदिसमजिदं च णिरयगदिसमजिदं च भजियव्वं ।” इति । भावार्थः पुनरयम्-देवगतौ नरकगतौ वाऽगत्वा मरुदेव्यादिवत् तिर्यग्गतित आगत्य मनुष्यगतौ क्षपकश्रेणिं प्रतिपन्नस्य सत्कर्मणि देवगतौ नरकगतौ वा बद्धकर्मदलं न विद्यत एव । यद्वा देवगति नरकगतिं वा गत्वाऽपि तत्र च कर्मदलं बद्ध्वा ततो निर्गत्य शेषगतित्रये वा तिर्यगगतौ वा कर्माऽवस्थानकालं ततोऽपि वाऽधिकं कालं व्यतिक्रम्य मनुष्यगता आगतस्य क्षपकस्य सत्कर्मण्येकमपि दलं देवगतौ नरकगतौ वा बद्धं न विद्यते, कर्माऽवस्थानकालतः परं बद्धकर्मदलस्य सत्कर्मण्यदर्शनात् ।। ___यः कश्चिज्जन्तुर्देवगतौ नरकगतौ वा समुत्पद्य कर्माऽवस्थानकालाभ्यन्तरे मनुष्यो भूत्वा क्षपकश्रेणिमारोहति । तस्य निरुक्तगतिबद्धदलं सत्कर्मणि विद्यते, यतो निरुक्तगतिबद्धदलस्य कर्माऽवस्थानकालो नातिक्रान्तः । ___इदन्त्ववधेयम् –देवगतौ वा नरकगतौ वा बद्धकर्मदलं जघन्येनैककर्मपरमाणुः सत्कर्मणि वर्तते, उत्कृष्टतस्त्वनन्तकर्मदलिकानि । इदमत्राऽल्पबहुत्वम्-(१) देवगतौ वा नरकगतौ वा बद्धकर्मदलं सत्कर्मणि जघन्यतः स्तोकम् , उत्कृष्टतस्त्वनन्तगुणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org