________________
२२४ ]
खवगसेढी
[गाथा १०५-१०७ कषायप्राभृतचूर्णि:--"छव्वीसविहत्तीए केवडीयमन्तरं ? जहण्णणं पलिदोवमस्स असंखेजदिभागो। उक्कस्सेण बे छावहिसागरोपमाणि सादिरेयाणि।" इति । तदेवं पड्विंशतिप्रकृतिस्थानविरहस्य सागरोपमसातिरेकषट्षष्टिद्वयप्रमाणत्वात् षड्विंशतिसत्ताकस्य च जीवस्यौपशमिकसम्यक्त्वेन विना क्षायोपशमिकसम्यक्त्व-क्षायिकसम्यक्त्वयोरलाभात् क्षपकश्रेणिमारूढेन जीवेन सागरोपमसातिरेकपटषष्टिद्वयकालाभ्यन्तरयौपशमिकसम्यक्त्वमवश्यमेव लब्धम् । सातिरेकयोश्च द्वयोः षषष्टयोः सागरोपमाणां कर्मावस्थानकालतो न्यूनत्वादोपशमिकसम्यक्त्वमार्गणायां बद्धप्रदेशाः क्षपकस्य सत्कर्मणि नियमतो भवन्ति ।
क्षायोपशमिकसम्यक्त्वमार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमेन विद्यते । कथमेतदवसीयते? इति चेत् , उच्यते-क्षायिकसम्यक्त्वस्योत्कृष्टतोऽपि कालः सातिरेकत्रयस्त्रिंशत्सागरोपमप्रमाणो भवति, यत एकविंशतिप्रकृत्यात्मकसत्तास्थानकोत्कृष्टकालः सातिरेकत्रयस्त्रिंशत्सागरोपममात्रः । अभ्यधायि च कषायप्रामतचूणौँ-"एक्कावोसाए विहत्ती केवचिरं कालादो ? जहण्णण अंतोमुहत्तं, उक्कस्सेण तेत्तीसं सागरोवमाणि सादिरेयाणि ।" इति । क्षायिकसम्यक्त्वस्य च क्षपकश्रेणाववश्यंभावित्वात् क्षायिकसम्यक्त्वतश्च प्राक क्षायोपशमिकसम्यक्त्वस्य नियमेन दर्शनात् तथा कर्माऽवस्थानकालस्य साधिकत्रयस्त्रिंशत्सागरोपमतोऽधिकत्वात् क्षायोपशमिकसम्यक्त्वमार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमतो विद्यते ।
क्षायिकसम्यक्त्वमार्गणायां बद्धदलं नियमेन क्षपकस्य सत्कर्मणि विद्यते, क्षायिकसम्यक्त्वमृते क्षपकणेरसंभवात् ।
संज्ञिमार्गणायां बद्धढलं नियमेन किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि विद्यते, संज्ञिन एव क्षपकश्रेणिप्रतिपत्तः।
___ असंज्ञिमार्गणायामपि बद्धदलं नियमेन किट्टिकाराणां किट्टिवेदकानां च सत्कर्मगि विद्यते । कथमेतदवसीयते? इति चेत् , उच्यते-पंजिन उत्कृष्टतः कायस्थितिः सातिरेकसागरोपमशतपृथक्त्वप्रमाणा लक्ष्यते । न्यगादि च श्रोप्रज्ञापनासूत्रे कायस्थितिद्वारे-"सण्णोणं भंते ! पुच्छा, गो० ! ज० अंतो० उ० सागरोवमसतपुहुत्तं सातिरेगं,।" इति । अयं भावःकश्चित् जन्तुभूयो भूयः संज्ञित्पद्यते, तदा सातिरेकसागरोपमशतपृथक्त्वकालं यावत् । ततः परमवश्यमेवाऽसंशिषूत्पद्यते । तेनोत्कृष्टसंज्ञिकायस्थितेराग नियमतोऽयं क्षपकोऽसंज्ञित्वेनासीत् । इत्थं संज्ञिसत्कायाः कायस्थितेः कर्माऽवस्थानकालतो न्यूनत्वादसंज्ञिमार्गणायां बद्धदलं किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि नियमेन विद्यते।
आहारकमार्गणायां बद्धदलं नियमेन किट्टिकाराणां किट्टिवेदकानां च सत्कर्मणि विद्यते । सुगममेतत् , आहारकाणामेव क्षपकश्रेण्यारम्भात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org