________________
मार्गणासु बद्धमभजनीयं दलम् ] किट्टिकरणाद्धाधिकारः
[ २१९ भव्यः सिद्धिगमनयोग्यः, भव्यग्रहणेन तत्प्रतिपक्षभूतोऽभव्योऽपि ग्राह्यः । तेन भव्यमार्गणास्थानं द्विविधं बोद्धव्यम् । सम्यक्त्वं त्रिविधम् , क्षायिकौपशमिकक्षायोपशमिकभेदात् । सम्यक्त्वग्रहणेन तत्प्रतिपक्षभूतं मिश्रं सास्वादनं मिथ्यात्वं च गृह्यते । इत्थं सम्यक्त्वमार्गणास्थानं पोढा । संज्ञी विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः, तत्प्रतिपक्षभूत एकेन्द्रियादिरूपोऽसंज्ञी। सोऽपि संज्ञिग्रहणेन सूचितः । इत्थं संज्ञिमार्गणास्थानं द्विविधम् । आहारयति-गृहणात्योजआहार-लोमाहार-कवलाहाराणामन्यतममित्याहारः, आहारक इत्यर्थः, आहारकग्रहणेन तत्प्रतिपक्षभूतमनाहारकमार्गणास्थानमपि ग्राह्यम् । तेनाऽऽहारकमार्गणास्थानं द्विविधम् ।
इत्थं चतुर्दशमूलमार्गणास्थानानामेतान्युत्तरमार्गणास्थानानि चतुःसप्ततिर्भवन्ति । ग्रन्थान्तरे तानि द्वापष्टिरुक्तानि, अत्र तु योगमार्गणाया उत्तरमार्गणास्थानानां पञ्चदशानां भावितत्वाद् द्वादशभिरधिकान्यभिहितानि । मार्गणानां विशेषप्रतिपत्तये त्वस्मद्गुरुचरणकृत-मार्गणाद्वारविवरणाख्यग्रन्थोऽवलोकनीयः, तत्र विस्तरेण मार्गणानां व्याख्यातत्वात् ।
___ अथ प्रकृतमनुसरामः-नरादयः कृतद्वन्द्वाः सप्तम्या निर्दिष्टाः । नरः-मनुष्यगतिः, तिर्यगतिर्यग्गतिः,इन्द्रियशब्दःप्रत्येकं सम्बध्यते, "द्वन्द्वान्ते श्रूयमाणं पदंप्रत्येकमभिसम्बध्यते।" इति न्यायात् । ततश्चायमर्थः-एकेन्द्रियः, पञ्चेन्द्रियः, त्रस:-त्रसकायः, द्वयौदारिकशरीरयोगौ-औदारिककाययोगौदारिकमिश्रकाययोगलक्षणौच,तत इतरेतरद्वन्द्वसमासः,तेषु, 'मणवयजोगचउक्के'ति चतुष्कपदं प्रत्येकं सम्बध्यते, मनोयोगचतुष्के सत्या-ऽसत्यसत्यासत्याऽसत्यामषलक्षणे, वचोयोगचतुष्के सत्याऽसत्यसत्यासत्याऽसत्यामपलक्षणे च 'नपुचउकसायमग्गणासुय' त्ति 'नपुचतुष्कषायमार्गणासु च' नपुंसकवेदमार्गणायां क्रोध-मान-माया-लोभलक्षणचतुष्कषायमार्गणासु, चकारः समुच्चयार्थः, 'णाणा०' इत्यादि, द्विकशब्दः प्रत्येकं सम्बध्यते । ततश्चायमर्थः-ज्ञानद्विकंमतिज्ञानश्रुतज्ञानलक्षणम् , अज्ञानद्विकं मत्यज्ञान-श्रुताज्ञानलक्षणम् , अविरतिः, सामायिकः, चक्षुकिं-चक्षुर्दर्शनाऽचक्षदर्शनलक्षणम्, षडलेश्याः कृष्णनीलकापोततेजःपद्मशुक्ललेश्यारूपाः, तत इतरेतरद्वन्द्वसमासः, तासु, 'भव०' इत्यादि, भव्यो-भव्यमार्गणास्थानम् , मिथ्यात्वं मिथ्यात्वमागणास्थानम् , अतः परं सम्यक्त्वपदं प्रत्येकं योज्यम् , उपशमसम्यक्त्वम् औपशमिकसम्यक्त्वम् , वेदकसम्यक्त्वं क्षायोपशमिकसम्यक्त्वापरपर्यायम् , क्षायिकसम्यक्त्वम् , तत इतरेतरद्वन्द्वसमासः, तेषु, 'सण्णिइयरासु' त्ति 'संज्ञीतरयोः' संश्यसज्ञिनोः 'आहारे' आहारकमार्गणास्थान इत्यर्थः, चकारः समुच्चयार्थः, सर्वसंख्यया द्वाचत्वारिंशन्मार्गणास्थानेषु (४२) 'बद्धपोसा' इत्यादि, 'बद्धप्रदेशाः' बद्धमोहनीयकर्मप्रदेशाः, 'किट्टिकाराणां' किट्टीः कुर्वते-निवर्तयन्त इति किट्टिकाराः "कर्मणोऽण" (सिद्धहेम० ५-१-७२) इति सूत्रेण कर्तरि अण्प्रत्ययः, तेषाम् , किहिवेयगाणं' ति, वेदयन्ति-अनुभवन्तीति वेदकाः, “णकतृचौ” (सिद्धहेम० ५-१-४८) इति सूत्रेण कतरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org