________________
२१८ ]
खगढी
णाणाणाणदुगाविरइसामइअचक्खुदुगछलेसासु । भवमिच्छुवसमवेयगखाइअसम्मेसु सण्णिइयरासु ॥ १०६ ॥ (गीतिः ) आहारम्मिय बद्ध असा होअन्ति नियमत्तो | किट्टीकाराणं किट्टवेअगाणं य संतम्मि ॥ १०७ ॥ (उपगीतिः)
[ गाथा - १०५-१०७
Jain Education International
नरतिर्यगेकेन्द्रियपश्च न्द्रियत्रसद्वयौदारिकशरीरयोगेषु । मनोवचोयोगचतुष्के नपुं चतुष्कषायमार्गणासु च ॥ १०५ ॥
ज्ञानाऽज्ञानद्विकाऽविरतिसामायिकचक्षुर्द्विकषट्लेश्यासु ।
भव्य मिथ्यात्वोपशमवेदकक्षायिक सम्यक्त्वेषु संज्ञीतरयोः || १०६ ॥
आहारे च बद्धप्रदेशा भवन्ति नियमतः ।
किट्टिकाराणां किट्टिवेदकानां च सत्तायाम् || १०७|| इति पदसंस्कारः |
'नर०' इत्यादिना नरप्रभृतिमार्गणास्थानेषु बद्धकर्मप्रदेशाः किट्टिकाराणां किट्टिवेदकानां च सत्तायां नियमतो वर्तन्त इति सूचितम् । इह विशेषनिर्देशाभावेऽपि मनुष्यादिमार्गणासु बद्धमोहनीयदलस्यैव प्ररूपणाऽवसेया, किट्टिप्ररूपणायाः प्रस्तुतत्वात् किट्टिषु च मोहनीय प्रदेशाग्रस्यैव भावात् । अत्र चेयं मार्गणास्थानप्रतिपादिका गाथा
" गइदिए य काए जोए वेए कसायनाणे य । संजमदंसणलेसा भवसम्मे सन्निआहारे | ॥ १ ॥ ।”
तत्र गतिश्चतुर्धा, नरक-तिर्यग्-नर- देवगतिभेदात् । इन्द्रियं पञ्चधा, स्पर्शन - रसन-प्राण-चक्षुःश्रभेदात् । इन्द्रियग्रहणेन च तदुपलक्षिता एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्वेन्द्रिया ग्राह्याः । कायः षोढा, पृथिव्यप्तेजोवायुवनस्पतित्र सकायभेदात् । योगः पश्चदशविधः सत्यमनोयोगोऽसत्यमनोरोगः सत्यासत्यमनोयोगोऽसत्यामुषमनोयोगः सत्यवाग्योगोऽसत्यवाग्योगः सत्यासत्यवाग्योगोऽसत्यामृग्योगो वैक्रियकाययोगो वैक्रियमिश्रकाय रोग आहारककाययोग आहारकमिश्रकाययोग औदारिककाययोग औदारिकमिश्र काययोगः कार्मणकाययोश्चेति । वेदस्त्रिविधः स्त्रीपुरुषनपुसकवेदभेदात् । कायश्चतुर्धा, क्रोध - मान-माया-लोभ भेदात् । ज्ञानं पञ्चधा, मतिज्ञान - श्रुतज्ञाना - ऽवधिज्ञान- मनः पर्यायज्ञान- केवलज्ञानभेदात् । ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते । तच्च त्रिविधम् मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात् । इत्थं ज्ञानमार्गणास्थानमष्टधा | संयमः=चारित्रम्, स च पञ्चधा, सामायिकसंयमः छेदोपस्थापन संयमः परिहारविशुद्धिकसंयमः सूक्ष्म सम्परायसंयमो यथाख्यात संयमश्चेति, संयमग्रहणेन तद्देशभूत स्तत्प्रतिपक्षभूतश्च यथाक्रमं देशसंयमोऽसंयम चोपलक्ष्यत इति संयममार्गगास्थानं सप्तवा । दर्शनं चतुर्विधम्, चक्षुरचक्षुरवधिकेवलदर्शनभेदात् । लेश्या षड्विधा, कृष्ण-नील-कापोत- तेजः-पद्म-शुक्रलेश्याभेदात् ।
For Private & Personal Use Only
www.jainelibrary.org