________________
२२० ]
खवगसेढी
[ गाथा-१०५-१०७ णकप्रत्ययः, किट्टीनां वेदकाः किट्टिवेदकाः, अत्र “कर्मजा तृचाच" (सिद्धहेम०-३-१-८३) इति सूत्रेण षष्ठीसमासे प्रतिषिद्धेऽपि याजकादेराकृतिगणत्वात् “याजकादिभिः" (सिद्धहेम०३-१-७८) इत्यनेन षष्ठीसमासः । यद्वा कर्मणोऽविवक्षायां वेद्यवेदकभावलक्षणसम्बन्धमात्रे किट्टिशब्दात् “शेषे" (सिद्धहेम० २-२-८१) इत्यनेन षष्ठी विभक्तिः । ततः सम्बन्धषष्ठयाः “षष्ठययत्नाच्छेषे” (सिद्धहेम० ३-१-७६) इत्यनेन सूत्रेण समासः, तेषाम् , चकारः समुच्चयार्थः, 'संतम्मि' ति गाथायां निर्देशो भावप्रधानः, तस्मात् 'संतम्मि' इत्यनेन सत्ता व्याख्येया, सत्तायां भवन्ति ।
भावार्थः पुनरयम्-विवक्षितकाले बद्धकर्मदलिकमुद्वर्तनाकरणेनोपयुपरि गत्वोत्कृष्टतः कर्माऽवस्थानकालं यावत् सत्तायां विद्यते । ततः परमवश्यमेव निजीणं भवति, तथा विवक्षितकाले बद्धकर्मदलिकमुद्वर्तनाकरणेनोपयु परि गत्वा जघन्यतोऽपि पल्योपमाऽसंख्येयभागोनकाऽवस्थानकालं यावद् नियमतः सत्कर्मणि तिष्ठति, वक्ष्यमाणनिलेपनस्थानानां केवलं पल्योपमाऽसंख्येयभागमात्रत्वात् । अयं नियमो-ऽश्रेण्यपेक्षया द्रष्टव्यः, क्षपकश्रेणी बद्धकर्मप्रदेशाग्रस्याऽन्तमुहूर्तकालेनाऽपि निर्जरणात् , उपशान्तमोहादिभिश्च बद्धकर्मणः समयमात्रेण निर्जरणात् ।।
__नन्वन्तःकोटिकोटिसागरोपमाद्यल्पस्थितिकं बद्धकर्मदलिकं जघन्यतोऽपि यावत् पल्योपमाऽसंख्येयभागोनकावस्थानकालं कथं तिष्ठेत् ? इति चेत् , उच्यते-बन्धकालेऽल्पस्थितिकं यत् कर्म बद्धम् , तस्य बन्धावलिकायां व्यतिक्रान्तायामुद्वर्तनाकरणेन कतिपयानि दलिकानि यथासम्भवमुपरितनस्थितिषूद्वर्तयति जीवः । उद्वर्तितदलिकेषूदयावलिकयाऽप्राप्तेषु पुनः कतिपयानि दलिकान्युपरितनासु स्थितिषूद्वर्तयति । एवंविधया पुनः पुनरुद्वर्तितानि दलिकानि पल्योपमाऽसंख्येयभागोनकर्माऽवस्थानकालमवश्यमेव सत्तायां विद्यन्ते । यद्यपि कर्मावस्थानकालेऽपवर्तनासंक्रमादीन्यपि भवन्ति, तथापि विवक्षितसमये बद्धलिकमुद्वर्तनाकरणमाहात्म्यात् पल्योपमाऽ संख्येयभागन्यूनकर्मावस्थानकालमवश्यं तिष्ठति । ततः परं सर्वात्मना निर्जरितुमर्हति ।
____ अथ मनुष्यगतौ बद्धमोहनीयदलं क्षपकस्य सत्तायां नियमतोऽवतिष्ठते । कथमेतदवसेयम् ? इति चेत् , उच्यते-मनुष्यगतावेव क्षपकश्रेणेः संभवात् तद्भवे च बद्धकर्मदलस्य कर्माऽवस्थानकालस्याऽनतिक्रान्तत्वात् सर्वेषां क्षपकाणां सत्कर्मणि मनुष्यगती बद्ध दलं नियमतो विद्यते ।
इदमत्राऽवधेयम्-मनुष्यगतौ बद्धमोहनीयदलं सत्तायां जघन्यतोऽनन्तस्कन्धमानं भवति । तच स्तोकम् । ततोऽसंख्येयगुणं मनुष्यगतौ बद्धमोहनीयदलमुत्कृष्टतो विद्यते । तत्र पूर्व कर्मावस्थानकाले मनुष्यत्वेनाऽपरिणम्य गत्यन्तरत आगतस्याऽथवा सकृन्मनुष्यत्वेनोत्पद्य क्रमेण कालं कृत्वा गत्यन्तरे कर्माऽवस्थानकालं ततोऽपि वाऽधिकं कालं व्यतिक्रम्य तत आगतस्य यथासंभवं क्षपितकाशलक्षणयुक्तस्य शीघ्रं क्षपणोद्यतस्य सत्कर्मणि मनुष्यगतौ बद्धकर्मदलं जघन्यं संभवति । तथा कर्मावस्थानकाले गुणितकशिविधिना यथासंभवमनेकवारं मनुष्यत्वेनोत्पद्य चिरेण क्षपकश्रेणिमारोहतो जीवस्य सत्तायां मनुष्यगतौ बद्धकर्मण उत्कृष्टप्रदेशाग्र विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org