________________
२१२]
खवगसेढी
[ गाथा--१०३--१०४ किट्टिष्वेकैकेन न्यूना उभयचयाः प्रक्षिप्यन्ते । एकोभयचयदलस्यैकाऽवान्तरकिट्टिगतदलानन्तभागमात्रत्वाल्लोभप्रथमसंग्रहकिट्टिप्रथमाऽपूर्वाऽवान्तरकिट्टिप्रभृतिचरमाऽपूर्वाऽवान्तरकिट्टिपर्यवसानास्वपूर्वाऽवान्तरकिट्टिषु दीयमानं दलं पूर्वपूर्वतोऽनन्ततमभागेन हीनं भवति ।
___ ततः परं लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टावेकमध्यमखण्डं लोभप्रथमसंग्रहकिट्टिसर्वाऽपूर्वाऽवान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वाञ्वान्तरकिट्टिराशिमिताश्चोभयचया दीयन्ते, अधस्तनाऽवान्तरकिट्टिदलमधस्तनशीर्षचयदलं च तस्यां न दीयते । इत्थं लोभप्रथमसंग्रहकिट्टिचरमाऽपूर्वाऽवान्तरकिट्टितो लोमप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टी दीयमानं दलमेकाधस्तनाऽवान्तरकिट्टिदलेनैकेन चोभयचयेन हीनं भवति । तत्रैकाधस्तनाऽवान्तरकिट्टिदलमसंख्येयभागप्रमितं भवति, एकमध्यमखण्डदलस्यैकाधस्तनावान्तरकिट्टिदलतोऽसंख्येयगुणत्वात् । एकोभयचयगतदलं च लोभप्रथमसंग्रहकिट्टिचरमाऽपूर्वावान्तरकिट्टी दीयमान सकलदलस्याऽनन्ततमभागप्रमाणं भवति । तेन लोभप्रथमसंग्रहकिट्टिचरमाऽपूर्वाऽवान्तरकिट्टौ दत्तदलतोऽसंख्येयभागेनाऽनन्ततमभागेन च हीनं दलं लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टौ दीयते, अनन्ततमभागस्य चा-संख्येयभागेऽन्तर्गतत्वाद् लोभप्रथमसंग्रहकिट्टिचरमाऽपूर्वाऽवान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टावसंख्येयभागेन हीनं दलं दीयते ।
__ततः परं लोभप्रथमसंग्रह किट्टिद्वितीयपूर्वाऽवान्तरकिट्टावेकमध्यमखण्डमेकाधिकलोभप्रथमसंग्रहकिट्टयपूर्वाऽवान्तरकिट्टिराशिन्यून-सर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणा उभयचया एकाधस्तनशीर्षचयदलं च दीयन्ते । अत्र लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टित एकोभयचयेन हीनमेकाधस्तनशीर्षचयेन चाऽधिकं दीयमानं दलं जातम् । तेन लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिद्वितीयपूर्वाऽवान्तरकिट्टावेकाधस्तनशीर्षचयगतदलन्यूनोभयचयेन हीनं दलं दीयते । उभयचयगतदलस्य लोभप्रथमसंग्रहकिट्टिप्रथमाऽपूर्ववान्तरकिट्टी दत्तदलानन्ततमभागमात्रत्वादेकाधस्तनशीर्षचयन्यूनोभयदलचयगतदलमप्यनन्ततमभागमात्रं भवति । इत्थं लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिद्वितीयपूर्वाऽवान्तरकिट्टावनन्तभागेन हीनं दीयमानं दलं भवति । एवमनन्तरानन्तरेण तावद् वक्तव्यम्, यावद् लोभप्रथमसंग्रहकिट्टिचरमपूर्वाऽवान्तरकिट्टिः। तेन लोभप्रथमसंग्रहकिट्टिचरमपूर्वाऽवान्तरकिट्टावेकमध्यमखण्डमेकोनलोभप्रथमसंग्रहकिट्टिपूर्वाऽपूर्वाऽवान्तरकिट्टिराशिन्यूनसर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणा उभयचया एकोनलोभप्रथमसंग्रहकिट्टिपूर्वाऽवान्तरकिट्टिराशिप्रमाणाचाऽधस्तनशीर्षचयाः प्रक्षिप्यन्ते । __इदन्त्ववधेयम्-यद्यप्युत्तरोत्तराऽपूर्वावान्तरकिट्टावुत्तरोत्तरपूर्वाऽवान्तरकिट्टौ चाऽनन्ततमभागेन हीनं दलं दीयते, तथाप्यपूर्वाऽवान्तरकिट्टिषु हीयमानोऽनन्ततमभाग उभयचयप्रमाणो भवति, पूर्वाऽवान्तरकिट्टियु तु हीयमानोऽनन्ततमभाग एकाऽधस्तनशीर्षचयन्यूनोभयचयमात्रो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org