________________
खवगसेढी
२१० ]
[गाथा-१०३-१०४ मनाय गृहीतदलस्य बह्वसंख्येयभागकल्पं भवति, विभागत्रयेऽसंख्येयभागमात्रस्यैव दलिकस्य प्रक्षिप्तत्वात् । अतः सर्वाऽधस्तनाऽवान्तरकिट्टिदलतोऽसंख्येयगुणं सर्वमध्यमखण्डदलं भवति ।
(१) अधस्तनशीर्षचयदलस्य गणनविधिः-प्रथमसमयकृतप्रथमाऽवान्तरकिट्टावधस्तनशीर्षचयदलं नददाति । प्रथमसमयकृतद्वितीयावान्तरकिट्टयामेकमवस्तनशीर्षचयं प्रक्षिपति । प्रथमसमयकृततृतीयाऽवान्तरकिट्टी द्वावधस्तनशीर्षचयो प्रक्षिपति, चतुर्थाऽवान्तरकिट्टौ त्रीनधस्तनशीर्षचयान् प्रक्षिपति, एवंक्रमेण प्रथमसमयकृतचरमाऽवान्तरकिट्टावेकोनावान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति । अथ प्रक्षिप्यमाणाः सर्वाधस्तनशीर्षचयाः “सैकपदन्नपदार्धमथैकाद्यङ्कयुतिः किल संकलिताख्या।” इति श्रीभास्कराचार्योक्तकरणसूत्रेण सङ्कलयितव्याः । पदं चात्रैकोनप्रथमसमयकृतावान्तरकिट्टिराशिर्बोध्यम् । ततः प्रथमसमयकृतावान्तरकिट्टिसत्कैकचयगतदले सर्वाधस्तनशीर्षचयैर्गुणिते सर्वाधस्तनशीर्षचयदलं प्राप्यते । न्यासः-सर्वाधस्तनशीर्षचयदलम् = सर्वाधिस्तनशीर्षचयाः - प्रथमसमयकृतकिट्टिसकैफचयदलम्
(२) अधस्तनाऽवान्तरकिटिदलगणनविधिः-अपूर्वाऽवान्तरकिट्टिराशिना प्रथमसमयकृतप्रथमाऽवान्तरकिट्टिगतदले गुणिते सर्वाऽधस्तनाऽवान्तरकिट्टिदलं प्राप्यते । न्यासः-अधस्तनाऽवान्तरकिट्टिदलम् अपूर्वाऽवान्तरकिट्टिराशिः ४ प्रथमसमयकृतप्रथमाऽवान्तरकिट्टिदलम्
(३) उभयचयदलगणनविधिः-समयद्विकेन किट्टितया परिणमनाय गृहीतदलं पदेन विभज्यते, तदा लब्धिमध्यमदलं भवति । मध्यमदलं चा/कृतकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां भज्यते, तदैकोभयचयदलं प्राप्यते । पदं चात्र प्रथमसमय-द्वितीयसमयकृताऽवान्तरकिट्टिराशिवक्तव्यम् । न्यास:-मध्यमदल - समयद्विकेन किट्टितया परिणमनाय गृहीतदलम
पदम्
मध्यमदलम् एकोभयचयदलम्
द्वे द्विगुणहानी--पदम्-१ अथ चरमपूर्वाऽवान्तरकिट्टावेक उभयचयो दीयते, विचरमपूर्वाऽवान्तरकिट्टी द्वा उभयचयो दीयेते, त्रिचरमपूर्वाऽवान्तरकिट्टी त्रय उभयचया दीयन्ते, एवंक्रमेण द्वितीयसमयनिर्वय॑मानप्रथमावान्तरकिट्टौ सर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणा उभयचयाः प्रक्षिप्यन्ते । ते च सर्वे "सैकपदन्नपदार्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या।” इत्यनेन करणेन सङ्कलयितव्याः । पदं चात्र सर्वपूर्वापूर्वाऽवान्तरकिट्टिराशिख़तव्यम् । न्यासः-सर्वोभयचयाः (पदम्+१) पदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org