________________
गणितरीत्या दीयमानदलिकानि ]
कट्टिकरणाद्धाधिकारः
[ २०९
वृद्धया तावत् प्रक्षिपति यावद् लोभप्रथम संग्रह किट्टि प्रथमाऽपूर्वावान्तरकिट्टिः । तेन लोभप्रथमसंग्रह किडिप्रथमाऽपूर्वान्तरकिड्डी सर्वपूर्वा पूर्वाऽवान्तरकिट्टिराशिप्रमाणानुभयचयान् प्रक्षिपति ।
मध्यमखण्डदलम् - द्वितीयसमये किट्टितया परिणमनाथ गृहीतदलत उपर्युक्तदलत्रयं विशोध्याऽवशिष्टदले पूर्वा पूर्वाऽवाऽन्तरकिट्टिराशिना विभक्त लब्ध एकभागो मध्यमखण्डमुच्यते । तच्चैकैकस्यां पूर्वावान्तरकिट्ट्यामपूर्वावान्तरकिडौ च दीयते । सर्वासामवान्तरकिट्टीनां मध्यमखण्डदलं सर्वमध्यमखण्डदलमुच्यते । ननूपर्युक्तदलत्रयस्य प्रक्षेपादेव सर्वावान्तरकिट्टिषु दलिकं गोपुच्छाकारेण जातम्, तर्हि मध्यमखण्डं कुतः परिकल्प्यते ? इति चेत्, शृणुत प्रथम समयकृताऽवान्तरकिड्डीनामसंख्येयभागमिता एव द्वितीयसमयेऽपूर्वा अवान्तरकिट्टयो निर्वर्त्यन्ते, दलिकं च किट्टितया परिणमनाथ प्रथमसमयतोऽसंख्येव गुणं गृह्यते । उपर्युक्तविभागत्रये च यद् दलं दत्तम्, तत् किट्टितया परिणमनाथ गृहीत दलिकस्याऽसंख्येयभागकल्पं भवति, अधस्तनाऽवान्तरकिट्टिदलवर्जशेषदलिकस्याऽनन्ततमभागमात्रत्वे सत्यधस्तनाऽवान्तरकिट्टिदलिकस्याऽसंख्येय भागप्रमाणत्वात् । किट्टितया परिणमनाय गृहीत सकलदलत उपर्युक्तदलत्रयं विशोध्य शेषं दलं तथा दातव्यम्, यथा गोपुच्छाकारेण रचितदलं न व्याहन्येत । अतः शेषदलं पूर्वा पूर्वाऽवान्तराकेद्विराशिना खण्डयते, खण्डने च कृते प्राप्यमागमेकखण्डं मध्यमखण्डमुच्यते । तच्चैकैकावान्तरकिट्टी दीयते ।
अथोपर्युक्तदलिकचतुष्टयस्याऽल्पबहुत्वमभिधोयते - (१) सर्वाधस्तन शीर्षचयदलं सर्वस्तोकम्, उपरितनपदानां प्रभूतत्वात् । ( २ ) ततोऽसंख्येयगुणं सर्वोभयचयदलम् । कथमेतदवसीयते ? इति चेत्, उच्यते - प्रथमसमयेऽवान्तरकिट्टिषु यावद् दलिकमासीत्, ततोऽसंख्येयगुणं दलिकमवान्तरकट्टिषु द्वितीयसमये भवति । चयस्य च सत्तागतदलिकानुसारित्वात् प्रदेशापेक्षया पौर्वसमधिकचयत इदानीन्तनचयोऽसंख्येयगुणो जायते । तेन सर्वावस्तनशीर्षचयदलतः सर्वोभयचयदलमसंख्येयगुणं भवति । (३) ततः सर्वाऽधस्तनावान्तरकिट्टिदलिकमनन्तगुणं भवति । कथम् ? इति चेत्, उच्यते - एकस्यामेव प्रथमसमयकृताऽवान्तरकिड्डौ दलं सर्वाऽधस्तनशीर्षचयदलतोऽनन्तगुणं भवति, प्रथमसमयकृतप्रथमावान्तरकिडावेकद्विगुणहानिमात्र चयानां सद्भावात् सर्वाधरतनशीर्षचयानां चैकद्विगुणहान्यनन्ततमभागप्रमाणत्वात् । तथा सर्वाऽधस्तनशीर्षचयदलतः सर्वोभयचयदलं केवलमसंख्येवगुणं भवति । तेन सर्वोभयचयदलतोऽपि प्रथमसमयकृतै कावान्तरकिट्टिदलमनन्तगुणं भवति । एकाऽधस्तनावान्तरकिट्टिदलं च प्रथमसमयकृतप्रथमावान्तरकिट्टि प्रदेशमात्रं भवति । तेनैकाधस्तनावान्तरकिट्टिदलमपि सर्वेभयचयदलतोऽनन्तगुणं भवति । तथैका स्तनावान्तरकिट्टिदलिकस्य सर्वोभयचयदलतो ऽनन्तगुणत्वात् सर्वाऽधस्तनावान्तरकिदिलिकं सर्वोभयचयदलतोऽनन्तगुणं सुतरां सिध्यति । ( ४ ) ततोऽपि सर्वमध्यमखण्डदलमसंख्येयगुणं भवति । कथमेतदवबुध्यते ? इति चेत्, शृणुत - पूर्वोक्तदलिकत्रि के प्रदत्ते सत्यवशिष्यमाणं दलं किट्टितया परिण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org