________________
२०८ ]
खवगसेढी
[ गाथा-१०३-१०४ (२) अधस्तनाऽवान्तरकिटिदलम्-प्रथमसमयकृतद्वितीयाद्यवान्तरकिट्टिष्वधस्तनशीर्षचयदले प्रक्षिप्ते प्रथमसमयकृताः सर्वा अवान्तरकिट्टयस्तुल्यप्रदेशका भवन्ति । प्रदेशापेक्षया तत्सदृशाः प्रथमसमयकृताऽवान्तरकिट्टीनामसंख्येयभागप्रमिता अपूर्वाऽवान्तरकिट्टयः प्रथमसमयकृततत्तत्संग्रहकिट्टिप्रथमाऽवान्तरकिट्टया अधस्तात् स्थापयितव्याः । स्थापितायामेकैकस्यामवान्तरकिट्टौ यद्दलं भवति, तदधस्तनाऽवान्तरकिट्टिदलमुच्यते । तच्च सकलमपूर्वाऽवान्तरकिट्टिराशिगुणितप्रथमसमयकृतप्रथमावान्तरकिट्टिगतदलप्रमाणं भवति ।
(३) उभयचयदलम्-अधस्तनशीर्षचयदलिकेऽधस्तनाऽवान्तरकिट्टिदलिके च प्रक्षिप्ते सर्वाः पूर्वाऽपूर्वा अवान्तरकिट्टयः समानदलिका जायन्ते । तासां दलिकं गोपुच्छाकारं कर्तु चरमाऽवान्तरकिट्टयामेकचयमात्रं दलं प्रक्षिपति, द्विचरमाऽवान्तरकिट्टी द्वौ चयौ, त्रिचरमाऽवान्तरकिट्टी त्रींश्चयान् प्रक्षिपति, एवंक्रमेण द्वितीयसमयनिर्वय॑मानप्रथमापूर्वाऽवान्तरकिट्टौ पूर्वापूर्वाऽवान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति । एकचयमितं दलमुभयचयदलमुच्यते, पूर्वापूर्वसूभयास्ववान्तरकिट्टिषु प्रक्षिप्यमाणत्वात् । सर्वाऽवान्तरकिट्टिषु निक्षिप्तानां सर्वचयानां दलं सर्वोभयचयदलं भवति । न चोभयचयः कुतः कल्प्यते ? इति वाच्यम्, यतः सर्वाः पूर्वाऽपूर्वाऽवान्तरकिट्टयः प्रदेशापेक्षया सत्कर्मणि समाना न विद्यन्ते, किन्तु गोपुच्छाकारेण, पूर्वापूर्वाऽवान्तरकिट्टिषु दृश्यमानदलस्य गोपुच्छाकारेण प्रतिपादित्वात् । किञ्च किट्टिकरणाद्धायाः प्रथमसमयेऽवान्तरकिट्टिषु यश्चय आसीत्, द्वितीयसमये स एव न भवति, किन्त्वसंख्येयगुणो भवति । कथमेतदवसीयते ? इति चेत्, उच्यते-प्रथमसमयकृताऽवान्तरकिट्टिषु यद् दलमासीत्, तत् तथा रचितमासीत् यथाऽवान्तरकिट्टय एकद्विगुहानिस्थानमात्रा अभविष्यंश्चेत्, प्रथमाऽवान्तरकिट्टित एकद्विगुणहानिस्थानेषु गतेषु दलिकमर्धमभविष्यत् । अत्र च द्वितीयसमये प्रथमसमयकृतसर्वोत्कृष्टप्रदेशकाऽवान्तरकिट्टितोऽसंख्येयगुणं दलमपूर्वाऽवान्तरकिट्टौ ददाति, वक्ष्यमाणैकमध्यमखण्डस्यैकाऽधस्तनाऽवावान्तरकिट्टिदलतोऽसंख्येयगुणत्वात् । अभिनवावान्तरकिट्टयस्तु पूर्वसमयतोऽसंख्येयभागमात्रा एव निर्वय॑न्ते, तासु चदलिकनिक्षेपं तथा करोति, यथैकद्विगुणहानिस्थानमात्राः किट्टयो-ऽभविष्यंश्चेत्, द्वितीयसमयनिर्वय॑मानप्रथमावान्तरकिट्टित एकद्विगुणहानिस्थानेषु गतेषु दलमर्धमभविष्यत् । एवं प्रथमसमयतो द्वितीयसमययेकैकापूर्वावान्तरकिट्टौ निक्षिप्यमाणदलस्याऽसंख्येयगुणत्वाद् द्वितीयसमये चयोऽसंख्येयगुणो भवेत् , अन्यथा प्रथमसमये यावांश्चय आसीत्, तावानेव चयो द्वितीयसमयेऽपि भवेत्, तकद्विगुणहानिस्थानानि पूर्वसमयापेक्षयाऽसंख्येयगुणानि कल्पयितव्यानि। तच्च नेष्टम्, एकद्विगुणहानिस्थानानां नैयत्यात् । एवं प्रथमसमयतो द्वितीयसमये चयस्याऽसंख्येयगुणत्वादुभयचयः कल्प्यते । तत्र क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टावेकमुभयचयम्, द्विचरमाऽवान्तरकिट्टौ द्वा उभयचयौ, त्रिचरमाऽवान्तरकिट्टौ त्रीनुभयचयान् प्रक्षिपति, एवमेकोत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org