SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ गणितरीत्या द्वितीयादिसमयेषु दलनिक्षेपः ] किट्टिकरणाद्धाधिकारः [ २०७ sarन्तरकि मानं दलं प्रभूतं भवति, ततोऽनन्तभागेन हीनं संज्वलनलोभप्रथम संग्रह किट्टि - द्वितीयावान्तरकिट्टौ दृश्यमानं दलं विद्यते । एवमनन्तरानन्तरेण तावद् वक्तव्यम्, यावत् संज्वलनक्रोधतृतीय संग्रह किडिचरमाऽवान्तरकिट्टिः । न चा- ऽपूर्वाऽवान्तरकिट्टिषु यावद् दलं दीयते, तावदेव दृश्यमानं भवति । पूर्वाऽवान्तरविट्टिषु पुनर्दीयमानदल- पुरातनसत्तागतदलयोः समुदायो दृश्यमानं दलं भवति । तेन चरमाऽपूर्वाऽवान्तरविट्टितः प्रथमपूर्वाऽवान्तरविट्टौ दृश्यमानं दलमधिकं कुतो न भवति इति चेत्, उच्यते - एतत् समीचीनम् । किन्तु प्रथमपूर्वावान्तरकिट्टौ दीयमानदलस्याऽसंख्येयभागप्रमाणं पुरातनसत्तागतं दलं तथा चरमाऽपूर्वाऽवान्तरकिट्टौ दीयमानदलतोऽसंख्येयभागेन हीनं तस्यां दीयमानं दलमित्येतयोः समुदायस्य चरमाऽपूर्वाऽवान्तरकिट्टौ दीयमानदलतोऽनन्तभागहीनत्वाच्चरमाऽपूर्वावान्तरकिट्टितः प्रथमपूर्वा ऽवान्तरकिद्वावनन्तभागेन हीनं दलं दृश्यते । पश्यन्तु पाठका यन्त्रकम् - १६ । -: अथ गणितविभागः : अथोपर्यार्थी गणितानुसारेण स्फुटीक्रियते — प्रथमसमये यावतों दलिकस्यावान्तरकिट्टीः करोति, द्वितीयसमये ततोऽसंख्येयगुणं दलं गृहीत्वाऽभिनवा अवान्तरकिट्टीः कुर्वन् पूर्वाऽवान्तरकिट्टीरपि पुष्णाति, पूर्वाऽवान्तरकिट्टिष्वपि दलिकं ददातीत्यर्थः । तत्र द्वितीयसमये किट्टितया परिणमनाय गृहीतसर्वदलं विभागचतुष्टये विभक्तव्यम् । तद्यथा - (१) अधस्तनशीर्षचयदलम्, (२) अधस्तनाऽवान्तरकिट्टिदलम्, (३) उभयचयदलम्, (४) मध्यमखण्डदलं चेति । (१) अधस्तनशीर्षचयदलम् - किट्टिकरणाद्वाप्रथमसमयकृतायां सर्वजघन्याऽनुभागका - ऽवान्तरकिट्टौ दलं प्रभूतं विद्यते, ततो द्वितीयाऽवान्तरकिडौ विशेषहीनं विद्यते, ततोऽपि तृतीया - वान्तरकि विशेषहीनम्, एवंक्रमेण तावद् विद्यते, यावच्चरमाऽवान्तरकिट्टिः । अथ द्वितीयसमये किट्टितया परिणमनाथ गृहीतदलिकतो दलमादाय तेन क्रमेण प्रथमसमयकृद्वितीयाद्यवान्तरकिवयः पूरयितत्र्याः, येन सर्वा अप्यवान्तरकिट्टयः प्रदेशाग्रमाश्रित्य प्रथमसमयकृतप्रथमाऽवान्तर किट्टिसदृशा भवेयुः । प्रथमसमयकृतद्वितीयाद्यवान्तरकिट्टीनां समीकरणार्थं यावद् दलमपेक्ष्यते तावद् दलमधस्तनशीर्षचयदलमुच्यते । नन्वधस्तनशीर्षचयदलं कुतः कल्प्यते ? इति चेत्, उच्यते - द्वितीयसमय एकैकस्यामवान्तरकिद्वावभिनवश्चय इष्यते, एकैका - वान्तरकिट्ट प्रथमसमयतो द्वितीयसमयेऽसंख्येयगुणदलिकस्य प्रक्षेपात् । स च प्रथमसमयकृतद्वितीयावान्तरकट्टिषु प्रथमसमयकृत प्रथमाऽवान्तरकिट्टिसदृशासु कृतास्वेव सुज्ञो भवतीति हेतोः प्रदेशानाश्रित्य प्रथमसमयकृतद्वितीयाद्यवान्तरकिट्टयः प्रथमसमयकृतप्रथमाऽवान्तरकिट्टितुल्याः क्रियन्ते । तदेवमधस्तनशीर्षचयदलस्य कल्पना सार्थका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy