________________
... २०६]
खबगसेढी
[गाथा-१०३-१०४ __इत्थं द्वितीयसमये दीयममानदलस्य द्वादशस्थानेष्वसंख्येयभागहीनत्वाद् एकादशस्थानेषु राऽसंख्येयभागाधिकत्वात् तथा शेषेष्वनन्तस्थानेष्वनन्ततमभागेन न्यूनत्वाद् दीयमानदलस्यैप क्रम उष्ट्रकूटतुल्यो जातः । यथा उष्ट्रस्य पृष्ठं पश्चिमभाग उन्नतं भवति, ततः क्रमेण ईपनिम्नतया तिष्ठत् स्थानविशेषे प्रभूतनिम्नं भवति, ततः क्रमेणेषनिम्नतया तिष्ठत् पुनरुन्नतं भवति । ततः क्रमेणेषनिम्नतया तिष्ठति । तथैवाऽत्रापि लोभप्रथमसंग्रहकिट्टयाः प्रथमापूर्वावान्तरकिट्टी दीयमानं दलं प्रभूतं भवति, ततोऽनन्तरानन्तरेणा-ऽनन्ततमभागेन हीनं भवद् अपूर्वावान्तरकिट्टयाः पूर्वाऽवान्तरकिट्टयाश्च सन्धौ सति लोभप्रथमसंग्रहकिट्टयाः प्रथमपूर्वाऽवान्तरकिट्टावसंख्येयभागेन हीनं भूत्वाऽधो गच्छति । ततः क्रमेणाऽनन्ततमभागेन हीनं भवत् पूर्वाऽवान्तरकिट्टया अपूर्वावान्तरकिट्टयाश्च सन्धौ सति लोभद्वितीयसंग्रहकिट्टिप्रथमापूर्वावान्तरकिट्टयामसंख्येयभागाधिकं भूत्वोन्नतं भवति । ततः क्रमेणा-ऽनन्तभागेन हीनं भवति । तेन दीयमानदलमुष्ट्रकूटतुल्यं जातम् । उक्त च कषायप्राभतचूर्णी-विदियसमये दिजमाणयस्सपदेसग्गस्स एसा उद्दकूडसेढी।" इति । इहोष्ट्रकूटशब्देन सादृश्याद् निम्नोनतस्थानानि बोध्यानि, तानि च सर्वसंख्यया त्रयोविंशतिर्भवन्ति । तेन दीयमानदलस्य त्रयोविंशतिरुष्टकूटान्युपपद्यन्ते । न च कूटशब्दस्य शिखरवाचकत्वेनोष्ट्रकूटशब्देन सादृश्यात् केवलान्युनतस्थानानि कुतो न गृह्यन्ते ? इति वाच्यम्, यत उष्ट्रकूटशब्देन मादृश्यात् केवलेषूनतस्थानेषु गृहीतेषूष्टकूटान्येकादश स्युः, एकादशस्थानेष्वेवाऽसंख्येयभागाधिकदलिकप्रक्षेपात् । न च तदिष्टम्, कषायप्राभूतचूादौ त्रयोविंशत्युष्ट्रकूटानां प्रतिपादनात् । ननूष्टकूटशब्देन निम्नोनतस्थानेषु गृहीतेपूष्टकूटान्यनन्तानि स्युः, अनन्तावान्तरकिट्टिषु दीयमानदलस्यानन्तभागहीनत्वेन निम्नस्थानानामनन्तत्वादिति चेत्, न, यत इह यस्मिन् किट्टिस्थानेऽसंख्येयभागहीनं दलं दीयते, तनिम्नतया विवक्षितम् । यत्र त्वनन्तभागहीनं दीयते, तत् सदपि निम्नं निम्नतया न विवक्ष्यते, यथा-ऽनुदरा कन्या । यथा द्वितीयसमये दीयमानदलस्य क्रमो दर्शितः, तथैव किट्टिकरणाद्धायाः शेषसमयेष्वपि बोद्धव्यः, विशेषाभावात् । यदुक्तं कषायप्राभूतचूर्णी-“जहा विदियसमए किट्टीसु पदेसग्गं, तहा सव्विस्से किट्टीकरणडाए दिजमाणगस्स पदेसग्गस्स तेवोसमुहकूडाणि ।” इति । इत्थं किट्टिकरणाद्धायां द्वितीयादिसमयेष्वपि दीयमानदलस्य त्रयोविंशतिरुष्टकूटानि भवन्ति ।
अथ किट्टिकरणाद्धाया द्वितीयादिसमयेषु दृश्यमानं दलं प्ररूपयति-'दोसई' इत्यादि, तत्र 'सव्वत्थ' ति सर्वत्र' सर्वपूर्वापूर्वाऽवान्तरकिट्टिषु 'अनन्तभागोनम्' अनन्ततमभागेन ऊन-हीनं 'दलिक' प्रदेशाग्रं दृश्यते, किट्टिकरणाद्धाया द्वितीयादिसमयेषु पूर्वापूर्वसर्वाऽवान्तरकिट्टिषु यथोत्तरं दृश्यमानं दलमनन्ततमभागेन हीयमानं भवदेकगोपुच्छाकारेण तिष्ठतीत्यर्थः । उक्त च कषायप्राभूतचूर्णी- "दिस्समाणयं सव्वम्हि अणंतभागहोणं"। इति । अयं भावः -किट्टिकरणाद्धाया द्वितीयादिसमयेष्वपि संज्वलनलोभप्रथमसंग्रहकिट्टिप्रथमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org