________________
द्वितीयादिसमयेषु दलिकनिक्षेपक्रमः ] किट्टिकरणाद्धाधिकारः
[ २०५
समयनिर्वर्त्यमानप्रथमाऽपूर्वाऽवान्तरकिट्टौ दलमसंख्येयभागेनाऽधिकं दलं ददाति । ततः परमनन्तरानन्तरेणाऽनन्तभागेन हीनं तावद् ददाति यावद् लोभतृतीयसंग्रहकिट्टिद्वितीयसमयनिर्वर्त्यमानचरमा पूर्वावान्तरकिट्टिः ।
"
लोभतृतीयसंग्रहकिट्टिद्वितीयसमयनिर्वर्त्यमानचरमाऽपूर्वाऽवान्तरकिट्टितः प्रथमसमयनिर्वर्त्तित लोभ तृतीयसंग्रह किट्टिप्रथमपूर्वाऽवान्तरकिड्डावसंख्येयभागेन हीनं दलं ददाति, ततः परमनन्तरानन्तरेणाऽनन्तभागेन हीनं तावद् ददाति यावत् प्रथमसमयकृत लोभतृतीयसंग्रहकिडिचरमाऽपूर्वाऽवान्तरकिट्टिः ।
प्रथमसमयकृत लोभतृतीय संग्रह किडिचरमपूर्वऽवान्तरकिट्टितो
द्वितीयसमयनिर्वर्त्यमानमायाप्रथम संग्रहकिट्टिप्रथमाऽपूर्वाऽवान्तरकिडौ दलमसंख्येयभागेनाऽधिकं ददाति । ततः परमनन्तरानन्तरेणाऽनन्तभागेन हीनं तावद् ददाति यावद् द्वितीयसमयनिर्वर्त्यमान-मायाप्रथम संग्रह किट्टिचरमाऽपूर्वाऽवान्तरकिट्टिः । उक्त' च कषायप्राभृतचूर्णी "तदो लोभस्स चरिमादो किट्टीदो मायाए जा विदियसमए जहण्णिया किट्टी, तिस्से दिज्जदि पदेसग्गं विसेसाहियमसंखेज्जदिभागेण, तदो पुणमणंतभागहोणं जाव अपुव्वाणं चरिमादो ति । "
मायाप्रथमसंग्रहकिट्टिद्वितीयसमय निर्वर्त्यमानचरमाऽपूर्वाऽवान्तरकिट्टितः प्रथमसमयकृतमायाप्रथम संग्रह किट्टिप्रथमपूर्वाऽवान्तरकिट्टावसंख्येयभागेन हीनं दलं ददाति, ततः परमनन्तभागेन हीनं दलं तावद् ददाति यावत् प्रथमसमयकृत - मायाप्रथमसंग्रह किट्टिचरमपूर्वावान्तरकिट्टिः ।
एवं मायामानक्रोधानां यथाक्रमं यत्र यत्र पूर्वाऽवान्तरकिट्टिसमनन्तरमपूर्वाऽवान्तरकिट्टिः प्राप्यते, तत्र तत्र पूर्वाऽवान्तरकिट्टौ दत्तदलतोऽसंख्येयभागेनाधिकं दलं ददाति । यत्र यत्र पुनरपूर्वावान्तरकिट्टिसमनन्तरं पूर्वाऽवान्तरकिट्टिः प्राप्यते, तत्र तत्राऽपूर्वाऽवान्तरकिट्टौ दत्तदलतोऽसंख्येयभागेन हीनं दलं ददाति । अन्यत्र सर्वपूर्वापूर्वाऽवान्तरविद्विषु क्रमेणाऽनन्तभागहीनं दलं ददाति । उक्त ं च कषायप्राभृतचूर्णौ - "एवं जम्हि जम्हि अपुव्वाणं जहण्णिया किट्टी, तम्हि तम्हि विसेसाहियमसंखेज दिभागेण, अपुव्वाणं चरिमादो असंखेज्जदिभागहीणं । Xxx सेसेसु किट्टिट्ठाणेसु अनंतभागहीणं दिज्जमाणगस्स पदे सग्गस्स ।" इति ।
एवं क्रमेण दलिकं निक्षिपन् द्वादशसु पूर्वाऽवान्तरकिट्टिस्थानेष्वसंख्येयभागेन हीनं दलं ददाति, अपूर्वावान्तरकिट्टयाः पूर्वाऽवान्तरकिट्टयाश्च द्वादशसन्धिदर्शनात् । एकादशसु चाऽपूर्वाऽवान्तरकिस्थानेष्वसंख्येयभागेनाधिकं दलं ददाति, पूर्वा ऽवान्तरकिट्टपूर्वा ऽवान्तरवििट्टयोरेकादशसन्धिदर्शनात् । उक्त' च कषायप्राभृतचूर्णी - "एदेण कमेण विदियसमए णिक्खिवमाणगस्स पदेसग्गस्स बारससु किट्टिट्ठाणेसु असंखेज्जदिभागहीणं, एक्कारससु किहिडासु असंखेजदिभागुत्तरं दिज्ज माणगस्स पदेसग्गस्स” । इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org