________________
द्वितीयादिसमयेऽवपूर्वानान्तरकिट्टयः] किट्टिकरणाद्धाधिकारः
[२०१ निर्वर्तयति । अपूर्वत्वं च प्राक्तनसमये तादृशाऽनुभागकानामवान्तरकिट्टीनामदर्शनादवसेयम्, उत्तरोत्तरसमये-ऽनन्तगुणहीनरसत्वसंपादनात् । इदमुक्त भवति-प्रतिसमयमनन्तगुणवृद्धया प्रवर्धमानायां विशुद्धौ प्रवर्त्तमानत्वात् किट्टिकरणाद्धायाः प्रथमसमयतो द्वितीयसमयेऽसंख्येयगुणं दलं गृहीत्वा प्रथमसमयतोऽसंख्येयगुणहीना अभिनवा अवान्तरकिट्टीनिवर्तयति । उक्तं च कषायप्राभृतचूर्णी-"जं पदेसग्गं सव्वसमासेण पढमसमए किट्टीसु दिनदि, तं थोवं । विदियसमए असंखेनगुणं । xxx विदियसमए अण्णाओ किट्टीओ करेदि । पढमसमये णिव्वत्तिदकिटोणमसंखेजदिभागमेत्ताओ।" इति । ताश्च अभिनवा अवान्तरकिट्टयो द्वादशसंग्रहकिट्टीनामवस्तात् क्रियन्ते । उक्तं च कषायप्राभतचूर्णी-“एककिस्से संगहकिट्टीए हेट्ठा अपुवाओ किटीओ करेदि ।” इति । तद्यथा-संज्वलनक्रोधस्य तृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टया अधस्ताद् द्वितीयसमयेऽनन्तगुणहीनानुभागकाः प्रथमसमयकृतावान्तरकिट्टीनामसंख्येयभागमिता अपूर्वा अवान्तरकिट्टीः करोति, तथा द्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टथा अधस्तात् प्रथमसमयकृतावान्तरकिट्टीनामसंख्येयभागप्रमाणा अपूर्वा अवान्तरकिट्टीनिर्वर्तयति। एवं क्रोधद्वितीयसंग्रहकिट्टिप्रथमसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टया अप्यधस्तादनन्तगुणहीनानुभागकाः प्रथमसमयकृतावान्तरकिट्टीनामसंख्येयभागप्रमाणा अभिनवा अवान्तरकिट्टीनिवर्तयति । एवमेव मानमायालोभानां स्वस्वप्रथमादिसंग्रहकिट्टीनामधस्तादनन्तगुणहीनाऽनुभागका अपूर्वा अवान्तरकिट्टीः करोति । यस्याः संग्रहकिया अधस्ताद् या अपूर्वाऽवान्तरकिट्टयः क्रियन्ते, ता अपूर्वाऽवान्तरकिट्टयस्तत्संग्रहकिट्टिसम्बन्धन्यो व्यपदिश्यन्ते । इत्थं प्रथमसमयतो द्वितीयसमयेऽसंख्येयभागप्रमाणा मन्दतराऽनुभागका अवान्तरकिट्टय एकैकस्यां संग्रहकिट्टौ वर्धन्ते ।
संज्वलनक्रोधस्य किट्टीनां विन्यासःद्वितीपसमयकृता अपूर्वावान्तरकिट्टयः प्रथमसमयकृतावान्तरकिट्टयः
kkkkkkkkkkkxप्रथमसंग्रहकिट्टिः ।
★★★★★★★★★★★★★★★★द्वितीयसंग्रहकिट्टिः 鲁些带整卷整登给普普
kattrakattttttttttt.तृतीयसंग्रहकिट्टिः परमार्थतः प्रथमसमयकृतावान्तरकिट्टितो द्वितीयसमयकृतावान्तरकिट्टयो- संख्येयगुणहीना भवन्ति । इह तु द्विगुणहीना दर्शिताः, द्विकस्याऽसंख्येयत्वेन परिकल्पनात् ।
एवं मानमायालोभानामपि न्यासो द्रष्टव्यः । ततस्तृतीयसमये द्वितीयसमयतोऽसंख्येयगुणं दलं गृहीत्वा द्वितीयसमयतोऽसंख्येयगुणहीना अपूर्वा अवान्तरकिट्टीर्वादशसंग्रहकिट्टिसत्कस्वस्वप्रथमाऽवान्तरकिट्टया अधस्ताद् निर्वतयति । एवं प्रतिसमयमसंख्येयगुणक्रमेण दलं गृहीत्वाऽसंख्येयगुणहीना अपूर्वावान्तरकिट्टीस्तावनिवर्तयति, यावत् किट्टिकरणाद्धायाश्चरमसमयः ॥१०२।।
**
***
**********
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org