SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २०० ] aara [ गाथा--१०१-१०२ किट्टिकरणाद्धाप्रथमसमये किट्टिनिवृत्तिमभिधाय सम्प्रति किट्टिकरणाद्धाप्रथमसमयात् प्रभृति क्षपकस्य मोहनीयस्थितिरसयोरपवर्तनैव भवति, ततोऽन्यस्य तुद्वर्तनाऽपवर्तना चोभेऽपि भवत इति चिख्यापयिषुराह किट्टी कुणमाणो ओवट्ट सो य न उब्वट्टर ओवट्ट मोहस्स ठिइरसा णियमा । उब्वट्टर परो उ ॥ १०१ ॥ (उपगीतिः) किट्टीः कुर्वाणोऽपवर्तयति मोहस्य स्थितिरसौ नियमाद् । स च नोद्वर्तयत्यपवर्तयत्युद्वर्तयति परस्तु ॥ १०१ ॥ इति पदसंस्कारः । 'hिar' इत्यादि, किट्टी: 'कुर्वाणः' निर्वर्तयन् प्रस्तुतत्वात् क्षपकः 'मोहस्य' मोहनीयस्य स्थितिरसौ नियमाद् अपवर्तयति, मोहनीयस्य सत्तागत स्थितिरसौ नियमतो हास्यतीत्यर्थः । 'स' किट्टिकरणाद्धावर्ती च क्षपको नोद्वर्तयति, मोहनीयस्य सत्तागतस्थितिरसौ न वर्धयतीत्यर्थः । किट्टिकारेतरस्य को विशेषः १ इत्यत आह- 'ओवह ' इत्यादि, तत्र 'परस्तु' किट्टिकरणाद्वाया अधस्ताद् वर्तमानो जीवस्तु तुर्वाक्यभेदे, मोहनीयस्य स्थितिरसावपवर्तयत्युद्वर्तयति च । उक्त च कषायप्राभृते "ओवट्टणमुव्वट्टण किट्टीवज्जेसु होदि कम्मेसु । ओव्हणा च णियमा किट्टीकरणम्हि बोडव्वा ॥ १ ॥” इति तथैव कर्मप्रकृतावपि - "आबंधा उक्कड्ढइ सव्वहिमोकढणा ठिइरसाणं । किट्टीवज्जे उभयं, किट्टी ओव्वट्टणा एक्का || १ ||" इति । एवं कषायप्राभृतचूर्णावप्युक्तम् - "खवगो किट्टीकरणप्पहुडि जाव संकमो, ताव ओडगो पदेसग्गस्स ण उक्कड्डगो ।” इति । अथ किरणाद्धायाद्वितीयादिसमयेषु यद्भवति तदभिधातुकाम आह— बीयाइखणे असंखगुणकमेणं दलं तु घेत्तणं । कुड़ अहो संगह किट्टीण अपुव्वा असंखगुणहीणा ॥ १०२ ॥ ( गीतिः ) Jain Education International द्वितीयादिसमयेष्त्रसंख्यगुणक्रमेण दलं तु गृहीत्वा । करोत्यधः संग्रह किट्टी नामपूर्वा असंख्यगुणहीनाः || १०२ || इति पदसंस्कारः । 'बीयाpaणेसु' इत्यादि, 'द्वितीयादिक्षणेषु' किट्टिकरणाद्वाया द्वितीयादिसमयेषु असंख्यगुणक्रमेण 'दलं' प्रदेशाग्र' तु 'गृहीत्वा' आदाय 'संग्रह किट्टीनां' द्वादशानां संग्रह किट्टीनामधः 'अपूर्वा :' अभिनवा अवान्तरकिट्टी : 'असंख्यगुणहीनाः ' पूर्वसमय तोऽसंख्येय गुणहीनाः 'करोति' For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy