________________
[ १९३
असत्कल्पनया किट्टिषु दीयमानदलम् ] किट्टिकरणाद्धाधिकारः तृतीयसंग्रहकिट्टौ त्वेकादशकोटयः सप्ताशीतिलक्षाणि पञ्चसप्ततिसहस्राण्यष्टासप्तत्युत्तरसप्तशतानि च (११,८७,७५,७७८) दलानि ददाति, तथा प्रागुक्तानि नोकषायपरिणतक्रोधदलिकान्येकाऽब्जमेकचत्वारिंशत्कोटयो नवनवतिलक्षाण्येकाशीतिसहस्राणि चत्वारिंशदुत्तरचतुश्शतानि च (१,४१,९९,८१,४४०) प्रक्षिपति । तेन तृतीयसंग्रहकिट्टयामष्टादशाधिकद्विशतोत्तरसप्तपञ्चाशत्सहस्राधिकसप्ताशीतिलक्षाधिकत्रिपञ्चाशत्कोट्यधिकमेकाब्जं (१,५३,८७,५७,२१८) दीयमानानि दलानि जायन्ते ।
मानतृतीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य चतुरधिकशतम् (१०४) अवान्तरकिट्टीनिवर्तयति, मानद्वितीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य पञ्चोत्तरशतम् (१०५) अवान्तरकिट्टीनिवर्तयति, मानप्रथमसंग्रहकिट्टितया च परिणमनाय गृहीतदलस्य पडधिकशतम् (१०६) अवान्तरकिट्टीः करोति ।
एवं मायातृतीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य दशाधिकशतम् (११०) अवान्तरकिट्टीनिवर्तयति, मायाद्वितीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्यैकादशोत्तरशतम् (१११) अवान्तरकिट्टीनिवर्तयति । मायाप्रथमसंग्रहकिट्टितया च परिणमनाय गृहीतदलस्य द्वादशाधिकं शतम् (११२) अवान्तरकिट्टीनिवर्तयति ।
___ लोभतृतीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य त्रयोदशाधिकशतम् (११३) अवान्तरकिट्टीनिर्वतयति । लोभद्वितीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य चतुर्दशोत्तरशतम् (११४) अवान्तरकिट्टीनिवर्तयति । लोभप्रथमसंग्रहकिट्टितया च परिणमनाय गृहीतदलस्य पञ्चदशाधिकशतम् (११५) अवान्तरकिट्टीनिवर्तयति ।
क्रोधद्वितीयसंग्रहकिट्टितया परिणमनाय गृहीतदलस्या-ऽष्टाधिकशतम् (१०८) अवान्तरकिट्टीनिवर्तयति, क्रोधप्रथमसंग्रहकिट्टितया परिणमनाय गृहीतदलस्य नवोत्तरशतम् (१०९) अवान्तरकिट्टीनिवर्तयति । क्रोधतृतीयसंग्रहकिट्टितया च परिणमनाय गृहीतदलस्य सप्ताशीत्युत्तराणि त्रयोदशशतान्यवान्तरकिट्टीनिवर्तयति (१३८७), किट्टितया परिणमनाय गृहीतदलस्य प्रभूतत्वात् । इत्थं किट्टितया परिणमनाय गृहीतसर्वदलिकानां पञ्चनवत्यधिकत्रिशताधिकपञ्चाशीतिसहस्रोत्तरत्रिनवतिलक्षाधिकसप्ताशीतिकोटयधिकद्वयजमात्राणां (२,८७,९३,८५,३९५) चतुर्नवत्यधिकपञ्चविंशतिशतानि (२५९४) अवान्तरकिट्टीनिवर्तयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org