________________
१९२]
खवगसेढी
[ गाथा-१०० संग्रहकिट्टौतु स्तोकानि दलिकानि ददाति । तानि च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलानामासन्नचतुर्विंशतिभागप्रमाणान्येकादशकोटयश्चतुष्पञ्चाशल्लक्षाणि नवसप्ततिसहस्राणि षट्पञ्चाशदधिकशतं च (११,५४,७९,१५६) दलिकानि भवन्ति । ततो विशेषाधिकान्येकादशकोटयः षट्षष्टिलक्षाणि पञ्चोत्तरपञ्चशतानि च (११,६६,००,५०५) दलिकानि मानस्य द्वितीयसंग्रहकिट्टौ ददाति, ततोऽपि विशेषाधिकान्येकादशकोटयः सप्तसप्ततिलक्षाणि द्वाविंशतिसहस्राण्येकोनसप्तत्यधिकशतंच(११,७७,२२,१६९)दलानिप्रथमसंग्रहकिट्टो ददाति । तथैव मायाकिट्टितया परिणमनाय गृहीतदलिकेभ्यो द्वादशकोटय एकविंशतिलक्षाणि षट्सप्ततिसहस्राणि पञ्चनवत्यधिकत्रिशतानि च (१२,२१,७६,३९५) दलानि मायातृतीयसंग्रहकिट्टौ ददाति । तानि च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलानामासन्नचतुर्विशतिभागप्रमाणानि भवन्ति । ततो विशेषाधिकानि द्वादशकोटयो द्वात्रिंशल्लक्षाणि नवनवतिसहस्राणि पञ्चपञ्चाशदधिकत्रिशतानि च (१२,३२,९९,३५५) दलिकानि मायाद्वितीयसंग्रहकिट्टी ददाति । ततोऽपि विशेषाधिकानि द्वादशकोटयश्चतुश्चत्वारिंशल्लक्षाणि द्वाविंशतिसहस्राण्यष्टचत्वारिंशदधिकषट्शतानि च (१२,४४,२२,६४८) दलानि मायाप्रथमसंग्रहकिट्टौ प्रक्षिपति ।। ___लोभकिट्टितया परिणमनाय गृहीतसकलदलेभ्यः सप्तसप्तत्यधिकद्विशतोत्तरषट्चत्वारिंशत्सहस्राधिकपञ्चपञ्चाशल्लक्षोत्तरद्वादशकोटयः (१२,५५,४६,२७७) दलानि लोभतृतीयसंग्रहकिट्टी ददाति । तानि च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलानामासन्नचतुर्विशतिभागप्रमाणानि भवन्ति । ततो विशेषाधिकानि लोभद्वितीयसंग्रहकिट्टौ पञ्चचत्वारिंशदधिकद्विशतोत्तरससतिसहस्राधिकषट्षष्टिलक्षोत्तरद्वादशकोटयः (१२६६७०२४५) दलानि ददाति । ततोऽपि विशेषाधिकानि प्रथमसंग्रहकिट्टी द्वादशकोटयः सप्तसप्ततिलक्षाणि चतुर्नवतिसहस्रागि पञ्चपञ्चाशदुत्तरपञ्चशतानि च (१२७७९४५५५) दलानि ददाति । ____ संज्वलनक्रोधकिट्टितया परिणमनाय गृहीतदलेभ्यो नवत्यधिकचतुस्सप्ततिसहस्रोत्तरपण्णवतिलक्षाधिकसप्तसप्ततिकोट्युत्तरैकाजसंख्यकेभ्यः (१,७७,९६,७४,०९०) संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलिकानां किञ्चिन्यूनचतुरष्टभागप्रमाणान्येकाजमेकचत्वारिंशत्कोटयो नवनवतिलक्षाप्येकाशीतिसहस्राणि चत्वारिंशदधिकचतुश्शतानि च (१,४१,९९,८१,४४०) नोकषायतः परिणतक्रोधदलिकानि तृतीयसंग्रहकिट्टी ददाति । शेषाणि किञ्चिन्यूनाष्टभागप्रमाणानि पञ्चत्रिंशत्कोटयः षण्णवतिलक्षाणि द्विनवतिसहस्राणि पञ्चाशदधिकषट्शतानि च (३५,९६,९२, ६५०) दलानि क्रोधस्य प्रथमसंग्रहकिट्टि-द्वितीयसंग्रहकिट्टि-तृतीयसंग्रहकिट्टिषु ददाति । तत्र क्रोधस्य द्वितीयसंग्रहकिट्टयामेकादशकोटयो-ऽष्टनवतिलक्षाणि सप्तनवतिसहस्राणि द्विचत्वारिंशदुत्तरचतुश्शतानि च (११,९८,९७,४४२) दलानि ददाति, ततो विशेषाधिकानि प्रथमसंग्रहकिट्टी द्वादशकोटयो दशलक्षाण्येकोनविंशतिसहस्राणि त्रिंशदधिकचतुश्शतानि च (१२,१०,१९,४३०) दलानि ददाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org