________________
असत्कल्पनया किट्टिषु दीयमानदलम् ] किट्टिकरणाद्धाधिकारः
[ १९१ भागमात्रं दलं किट्टितया परिणतं स्यात् , असंख्येयसमयैरप्यनन्ततमभागस्यैव किट्टितया परिणतिसंभवात् । चरमसमये तु पूर्वापूर्वस्पर्धकेभ्यः सर्वदलं गृहीत्वा किट्टीनिवर्तयति, तेन चरमसमयेऽनन्तबहुभागमात्रदलं किट्टितया परिणतं भवेत् ।
न चाऽस्तु शेषसमयेषु किट्टितया परिणतं दलमनन्ततमभागमात्रमिति वाच्यम् , विरोधोपलम्भात् । तथाहि-किट्टिकरणाद्धाचरमसमये सर्वदलं किट्टितया परिणमयति । यद्यत्र द्विचरमसमयं यावत् किट्टितया परिणतं दलं सत्तागतदलाऽनन्ततममात्रं भवेत् , तर्हि द्विचरमसमयतश्चरमसमये किट्टितया परिणम्यमानं दलमनन्तगुणं भवेत् , सत्तागतसर्वदलस्य किट्टितया परिणम्यमानत्वात् । कषायप्राभृतचूर्णिकारादिभिस्त्वसंख्येयगुणक्रमणैव दलं प्रतिसमयं किट्टितया परिणमयतीत्युक्तम् , तथा च तद्ग्रन्थः-"जं पदेसग्गं सव्वसमासेण पढमसमए किट्टीसु दिजदि, तं थोवं, विदियसमए असंखेजगुणं, तदियसमए असंखेजगुणं, एवं जाव चरिमादो त्ति असंखेजगुणं।" इति । तेन सह विरोधः स्यात् । तस्मात् प्रथमविकल्प एव सङ्गतिं प्राञ्चति । पश्यन्तु पाठका यन्त्रकम्-१५ ।
अथ गणितविभागः अथ निरुक्तपदार्थो-ऽसत्कल्पनयाऽङ्कतः प्रदर्यते-संज्वलनचतुष्ककिट्टितया परिणमनायदलिकानि द्वऽब्जे सप्ताशीतिकोटयस्त्रिनवतिलक्षाणि पश्चाशीतिसहस्राणि त्रिशतानि पञ्चनवतिश्च (२८७९३८५३९५) गहणाति । तस्य किञ्चिन्न्यूनाष्टभागप्रमाणानि दलिकानि चतुस्त्रिंशकोटयोऽष्टानतिलक्षाण्यष्टादशशतानि त्रिंशच (३४,९८,०१,८३०) मानकिट्टितया परिणमयति, तानि स्तोकानि भवन्ति । ___अथ संज्वलनचतुष्ककिट्टितया परिणमनायगृहीतसकलदलानां किञ्चिन्न्यूनाष्टभागप्रमाणानि दलिकानि षटत्रिंशत्कोटयोऽष्टानवतिलक्षाण्यष्टानवतिसहस्राण्यष्टनवत्यधिकत्रिशतानि च (३६,९८,९८,३९८) मायाकिट्टितया परिणनाय गृह्णाति । तानि पूर्वतो विशेषाधिकानि भवन्ति । ततो विशेपाधिकानि सप्तसप्तत्यधिकैकादशसहस्रोत्तरा-ऽष्टात्रिंशत्कोटयो (३८,००,११,०७७) दलिकानि लोभकिट्टितया परिणमनाय गृहणाति । तानि च संज्वलनचतुष्ककिट्टितया परिणमनाय गृहीतसकलदलस्य साधिकाष्टभागप्रमाणानि भवन्ति । ततः क्रोधकिट्टितया परिणमनाय संख्येयगुणान्येकाजं सप्तसप्ततिकोटयः षण्णवतिलक्षाणि चतुस्सप्ततिसहस्राणि नवतिश्च(१,७७,९६,७४,०९०) दलिकानि गृह्णाति । तानि च संज्वलनचतुष्ककिट्टितया परिणमनाय गृही सकलदलस्य किञ्चिन्यूनपञ्चाष्टभागप्रमाणानि विद्यन्ते ।
तत्र मानकिट्टितया परिणमनाय गृहीतदलस्य तिस्रः संग्रहकिट्टीनिवर्तयति। मानस्य तृतीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org