________________
संग्रह किट्टयन्तराल्पबहुत्वम् ]
[ १६३
अत्रोच्यते - (१) लोमस्य तृतीयसंग्रह किट्टचन्तरमित्यनेन पदेन लोभस्य द्वितीय संग्रहकिट्टिसत्कचरमाऽवान्तर किट्टिगतरसाऽविभागा येन गुणकारेण गुणिता लोभस्य तृतीयसंग्रह किड्डिसत्कचरमाऽवान्तर किट्टिगतरसाऽविभागा भवन्ति, स गुणकारो ग्राह्यः । एवंविधगुणकाररूपं तृतीयसंग्रह किट्टयन्तरं द्वितीय संग्रह कियन्तरतोऽनन्तगुणं भवति । तथाहि - तृतीयसंग्रह किट्टिगत सर्वावान्तरविट्टयन्तराणि परस्परं गुणयितव्यानि, गुणितानि च पुनर्द्वितीय संग्रह किट्ट्यन्तरेण गुणायित-. व्यानि ततो लब्धं गुणनफलमत्र गुणकाररूपं तृतीय संग्रह किट्ट्यन्तरं बोद्धव्यम् । तेन तृतीयसंग्रह कियन्तरं सुतरां द्वितीयसंग्रह किट्टयन्तरतोऽनन्तगुणं सिध्यति, परस्परगुणित- तृतीयसंग्रहकिसिक- सर्वावान्तर किट्टचन्तरै द्वितीय संग्रह कियन्तरस्य गुणितत्वात् । गुणकारोऽत्र तृतीयसंग्रहकिट्टिसत्कपरस्पर गुणित सर्वाऽवान्तर किट्टयन्तरमात्रो ज्ञातव्यः । न चेदं न प्रतिपादनीयम्, अनुक्तसिद्धत्वादिति वाच्यम्, लोभमाययोरन्तरमाहात्म्यदर्शनाय प्रतिपादितत्वात् । तथाहि - द्वितीयसंग्रहकिन्तरगुणिततृतीय संग्रह किट्टिगत परस्पर गुणित सर्वाऽवान्तर किट्टचन्तरलक्षण तृतीयसंग्रह कियन्तरतोऽपि लोभस्य तृतीय संग्रह किट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिता मायायाः प्रथम संग्रह किट्टिसत्कप्रथमावान्तर किट्टिगतरसाऽविभागा भवन्ति, तद्गुणकारस्वरूपं लोभमायाऽन्तरमनन्तगुणं भवति । अतः साफल्यमस्य पदस्य । 'अह तइय०' इत्यादीनां मूलगाथोक्ता-ऽक्षराणामर्थस्त्वित्थं कार्य : – 'अथ' अथशब्दस्या- ऽनन्तरार्थकत्वात् द्वितीयसंग्रहकिट्टयन्तरतोऽनन्तरं तृतीय संग्रह किट्टयन्तरमनन्तगुणं भवति, अथ - ततोऽनन्तरं लोभमा यो - रन्तरमनन्तगुणितं भवति । द्वितीय संग्रह किट्टयन्तरतो लोभतृतीयसंग्रह किट्टयन्तरगुणं भवति । ततोऽपि लोममाययोरन्तरमनन्तगुणं भवतीत्यर्थः ।
(२) अथवा लोभस्य तृतीय संग्रह किट्टिसत्क-चरमाऽवान्तर किट्टिगतरसाऽविभागा येन गुणकारेण सङ्गुणिता लोभस्याऽपूर्वस्पर्धकसत्कप्रथमवर्गणागत- रसाऽविभागा भवन्ति स गुणकारोऽत्र तृतीयसंग्रह कियन्तरपदेन ग्राह्यः सङ्गतिस्तु किट्टिस्पर्धकयोस्तत्तत्कषायसम्बन्धित्वाद् बोध्या । लोभमयान्तरपदेन च लोभस्य तृतीयसंग्रह किट्टिसत्कचरमाऽवान्तरविट्टिगतरसाऽविभागा येन गुणकारेण गुणिता मायाप्रथम संग्रह किट्टिसत्कप्रथमावान्तर किट्टिगतरसाऽविभागा भवन्ति, स गुणकारो बोद्धव्यः । न चेत्थं व्याख्याते लोभस्य तृतीयसंग्रह किट्ट्यन्तरतो लोभमाययोरन्तरमनन्तगुर्ण न स्यात्, संग्रह कियपूर्वस्पर्धकान्तरतो किट्टयन्तरस्याऽनन्तगुणहीनत्वादिति वाच्यम्, लोभस्य द्वितीयसंग्रह कियन्तरतो लोमस्य तृतीय संग्रह कियन्तरमनन्तगुणं प्ररूप्य ततः पुनर्लोभस्य द्वितीयसंग्रह किन्तरं प्रति निवृत्य लोभस्य द्वितीयसंग्रह किट्टयन्तरतो लोभमाययोरन्तरमनन्तगुणं
किट्टिकरणाद्धाधिकारः
* अभ्यधायि च जयधवलाकारैरपि - "लोभस्स तदियसंगह किट्टी अंतरमिति वृत्ते लोभस्स विदियसंगट्टिए चरिम किट्टी जेण गुणकारेण गुणिदा लोभस्स चेव तदियसंगह किट्टीए चरिमकिट्टि पावेदि, सो गुणगारो घेत्तव्वो, पुण्वुत्तविदियसंग किट्टी-अंतरादो परिष्फुड मे वेदस्साांतगुणत्तदंसणादो । को एत्थ गुणगारो ? तदियसंग किट्टीए पविट्ठ सेस सत्थाणगुणगाराण मरणोपण संवग्गो ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org