________________
१६२]
खवगसेढी
[ गाथा-११-१३ 'तो' इत्यादि, 'तस्मात्' क्रोधतृतीयसंग्रहकिट्टिगतचरमावान्तरकिट्टयन्तरात् लोभस्य प्रथमसंग्रहकिट्टयन्तरमनन्तगुणं भवति । इदमुक्त भवति-लोभस्य प्रथमसंग्रहकिट्टिसत्कचरमा-ऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिता द्वितीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स परस्थानगुणकारो लोभस्य प्रथमसंग्रहकिट्टयन्तरमुच्यते । तच्च चरमस्वस्थानगुणकारलक्षणक्रोधतृतीयसंग्रहकिट्टिसत्कचरमाऽवान्तरकियन्तरतो-ऽनन्तगुणं भवति । अस्मादेव परस्थानगुणकारमाहात्म्यादेकैकस्य कषायस्य तिस्रस्तिस्रः संग्रहकिट्टयः प्ररूपिताः, अन्यथैकैकस्य कषायस्य विभागत्रयं नोपपद्यत ।
'तो' इत्यादि, 'तस्मात्' लोभप्रथमसंग्रहकिट्टयन्तरात् 'द्वितीयाऽन्तरं' लोभद्वितीयसंग्रहकिट्टयन्तरमनन्तगुणं भवति । लोभद्वितीयसंग्रहकिट्टिमकचरमाऽवान्तरकिट्टिगतरसाविभागा येन गुणकारेण गुणिता लोभतृतीयसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा जायन्ते, स गुण कारो लोभस्य द्वितीयसंग्रहकिट्टयन्तरमुच्यते, तच्च पूर्वपदतोऽनन्तगुणं भवतीत्यर्थः ।
'अह' इत्यादि, अथशब्दोऽनन्तरार्थकः । उक्त चाऽमरकोशे-'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वयो अथ ।" इति । ततश्चायमर्थः-लोभस्य द्वितीयसंग्रहकिट्टयन्तरतोऽनन्तरं 'तृतीयान्तरं' लोभतृतीयसंग्रहकिट्टयन्तरमनन्तगुणं भवति, लोभस्य द्वितीयसंग्रहकिट्टयन्तरतस्तृतीयसंग्रहकिट्टयन्तरमनन्तगुणं भवतीत्यर्थः । उक्त च कषायप्राभृतचूर्णी-'तदो लोभस्स पढमसंगहकिट्टीअंतरमणंतगुणं, विदियसंगहकिट्टीअंतरमणंतगुणं, तदियसंगहकिट्टीअंतरमणतगुण।" इति ।
ननु किं नाम लोभस्य तृतीयसंग्रहकियन्तरम् ? किं लोभस्य तृतीयसंग्रहकिट्टिसत्कचरमा - वान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गणिताः सन्तो लोमस्यैवा-ऽपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागा भवन्ति, स गुणकारो लोभतृतीयसंग्रहकिट्टयन्तरपदेन गृह्यते ? आहोस्वित् लोभस्य तृतीयसंग्रहकिट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गणिता मायायाः प्रथमसंग्रहकिट्टिसत्कप्रथमा-ऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गुणकारो गृह्यते ? न तावत् प्रथमविकल्पः, संग्रहकिट्टयन्तराऽल्पबहुत्वप्रसङ्ग संग्रहकिट्टिस्पर्धकान्तरा-ऽल्पबहुत्वस्या-ऽसंगतस्वात् । यथाकथं संगतौ निरूपितायामप्युपरितनपदस्य मायाप्रथमसंग्रहकिट्टयन्तरलक्षणस्याऽस्मात् पदादनन्तगुणत्वं न सिध्येत् , किट्टिस्पर्धकाऽन्तरतः किट्टयन्तरस्या-ऽनन्तगुणहीनत्वसंमवेन विरोधोपलम्भात् । नाऽपि द्वितीयविकल्पः, उपरि भण्यमानेन लोभमाययोरन्तरमनन्तगणमित्यनेन पदेन सिद्धत्वात् प्रस्तुतपदस्य पुनरुक्तदोषवत्त्वेन वैयर्थ्यात् । न च पुनरुक्तदोषमपाकतु लोभमाययोरन्तरमनन्तगणमित्येतद् लोभसत्कर्म येन गणकारेण गुणितं मायासत्कर्म भवति, स गणकारो लोभमाययोरन्तरमिति व्याख्येपमिति वाच्यम् , सत्कर्माऽन्तरतः किट्टयन्तरस्या-ऽनन्तगणहीनत्वदर्शनेनोपरि मण्यमानस्य मायाप्रथमसंग्रहकिट्टयन्तरस्य लोममायाऽन्तरतोऽनन्तगुणत्वाऽसंभवात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org