________________
किट्टयन्तराल्पबहुत्वम् ] किट्टिकरणाद्धाधिकारः
[ १६१ ततो मानस्य द्वितीयसंग्रहकिट्टी प्रथमा-ऽवान्तरकिट्टयन्तरमनन्तगुणम् । ततो मानस्य द्वितीयसंग्रहकिट्टौ द्वितीयाऽवान्तरकिट्टयन्तरमनन्तगुणं भवति । एवमुत्तरोत्तराऽवान्तरकियन्तरमनन्तगुणं तावद्वक्तव्यम् , यावन्मानस्य द्वितीयसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् ।
ततो मानस्य तृतीयसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगुणम् । ततोऽपि मानस्य तृतीयसंग्रहकिट्टी द्वितीया-ऽवान्तरकिट्टयन्तरमनन्तगुणम् । एवमनन्तरानन्तरेणाऽनन्तगुणं तावद्वक्तव्यम् , यावन्मानस्य तृतीयसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् ।।
ततः क्रोधस्य प्रथमसंग्रहकिट्टौ प्रथमा-ऽवान्तरकिट्टयन्तरमनन्तगुणम् । ततः क्रोधस्य प्रथमसंग्रहकिट्टौ द्वितीयाऽवान्तरकिट्टयन्तरमनन्तगणं भवति । एवमुत्तरोत्तरा-ऽवान्तरकिट्टयन्तरमनन्तगुणं तावदभिधातव्यम् , यावत् क्रोधप्रथमसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् । ____ ततः क्रोधस्य द्वितीयसंग्रह किट्टौ प्रथमा-ऽवान्तरकिट्टयन्तरमनन्तगुणम्। ततः क्रोधस्य द्वितीयसंग्रहकिट्टौ द्वितीया-ऽवान्तरकिट्टयन्तरमनन्तगुणम् । एवमनन्तरान्तरेणाऽनन्तगणं तावनिगदितव्यम् , यावत् क्रोधस्य द्वितीयसंग्रहकिट्टौ चरमाऽवान्तरकिट्टयन्तरम् ।
ततः क्रोधस्य तृतीयसंग्रहकिट्टौ प्रथमाऽवान्तरकिट्टयन्तरमनन्तगुणम् । ततो-ऽपि क्रोधस्य तृतीयसंग्रहकिट्टी द्वितीया-ऽवान्तरकिट्टयन्तरमनन्तगुणम् । एवमुत्तरोत्तराऽवान्तरकियन्तरमनन्तगुणं तावद् निश्चेतव्यम् , यावत् क्रोधस्य तृतीयसंग्रहकिट्टौ चरमाऽवान्तरकिट्यन्तरम् ।
न्यगादि च कषायप्राभृतचूर्णी-"एदीए णामसण्णाए किट्टीअंतराणं संगहकिट्टीअंतराणं च अप्पाबहुअं वत्तइस्सामो । तं जहा--लोभस्स पढमाए संगहकिट्टीए जहणणयं किट्टीअंतरं थोवं, विदियं किट्टीअंतरमणंतगुणं । एवमणंतराणंतरेण गंतूण चरिमकिट्टीअंतरमणंतगुणं । लोभस्स चेव विदियाए संगहकिट्टीए पढमकिट्टीअंतरमणंतगुणं । एवमणंतराणंतरेण जाव चरिमादो त्ति अणंतगुणं । लोमस्स चेव तदियाए संगहकिट्टोए पढमकिट्टीअंतरमणंतगुणं । एवमणंतराणंतरेण गंतूण चरिमकिट्टीअंतरमणंतगुणं। एत्तो मायाए पढमसंगहकिट्टीए पढमकिट्टीअंतरमणंतगुर्ण । एवमणंतराणंतरेण मायाए वि तिण्हं संगहकिट्टीणं किट्टीअंतराणि जहाकमेण अणंतगुणाए सेढीए णेदव्वाणि । एत्तो माणस्स पढमाए संगहकिट्टीए पढमकिट्टीअंतरमणंतगुणं। माणस्स वि तिण्हं संगहकिट्टीणमंतराणि जहाकमेण अणंतगुणाए सेढीए णेदव्वाणि । एत्तो कोधस्स पढमसंगहकिट्टीए पढमकिट्टीअंतरमणंतगुणं । कोहस्स वि तिण्हं संगहकिट्टीणमंतराणि जहाकमेण जाव चरिमादो अंतरावो त्ति अणंतगुणाए सेढीए णेदव्वाणि ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org