________________
खवगसेढी
१६४]
[गाथा-११-६३ भवतीत्यभिप्रेतत्वात्। "अह तहयः" इत्याद्यक्षराणामर्थस्त्वेवं कार्यः 'अर्थ' लोभद्वितीयसंग्रहकिट्टयन्तरतोऽनन्तरं तृतीयसंग्रहकिदृयन्तरमनन्तगुणं भवति, 'अथ' अथशब्दो विकल्पार्थकः । यन्न्यगादि मेदिनीकोशे
"अथाथो संशये स्यातामधिकारे च मङ्गाले।
विकल्पानन्तरप्रश्नकात्ारम्भसमुच्चये ॥ १॥” इति ॥ ततश्चायमर्थः-अथवा द्वितीयसंग्रहकिट्टयन्तरतो लोभमाययोरन्तरमनन्तगुणितं भवति ।
(३) अथवा लोभस्य तृतीयसंग्रहकिट्टयन्तरमित्यनेन लोभस्य तृतीयसंग्रहकिट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिता मायायाः प्रथमसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टिगतरसाऽविभागा भवन्ति, स गुणकारोऽत्र ग्राह्यः, लोभस्य मायायाश्चाऽन्तरमित्यनेनाऽपि स एव गुणकारो व्याख्येयः। न च तथाविधव्याख्याने पुनरुक्तदोष उद्भवतीति वाच्यम्, पूर्व सामान्येन अथ तृतीयसंग्रहकिट्ट यन्तरमनन्तगुणमित्यभिधाय तस्यैव अथ लोभमाययोरन्तरमनन्तगुणं भवतीति व्याख्यानरूपेणाऽभिहितत्वात्।
मूलगाथोक्ता-ऽक्षरार्थस्त्वेवम् -अथ द्वितीयसंग्रहकिड्यन्तरतोऽनन्तरं ततीयसंग्रहकिट्टयन्तरमनन्तगुणम्, 'अथ' द्वितीयसंग्रहकियन्तरतो-ऽनन्तरं लोभस्य मायायाश्चाऽन्तरमनन्तगुणितमित्यर्थ इति शेषः । एवमग्रेऽपि यथास्थानं समाधानत्रिकं भावनीयम, विरोधाऽनुपलम्भात्, वस्तुतः केवलज्ञानिनां केवलादर्शे एक एव विकल्पः प्रतिविम्बितो भवति, तथा स एव साधुः, किन्तु तं ते एव जानन्ति, बहुश्रुता वा । साम्प्रतं तेषामभावात् न जानीमः, को विकल्पो तेषां ज्ञानादर्श प्रतिविम्बित इति कृत्वा त्रयो विकल्पाः प्रतिपादिताः।
एतानि त्रीण्यपि समाधानान्यवलम्ब्याऽग्रे स्थापना प्रदर्शयिष्यते ।
'अह' इत्यादि, अथ लोभमाययोरन्तरमनन्तगणितम् । उक्त च कषायप्राभूतचूर्णी"लोभस्स मायाए च अंतरमणतगुणं ।" इति सुगममेतत्, प्राग विस्तरतो भावितत्वात् ।
अथ शेषकषायेष्वतिदिदिक्षराह–'तहेव' इत्यादि, 'तथैव' यथा लोभस्य संग्रहकिट्टयन्तराणि व्याख्यातानि, तथैव 'इतरेषां' माया-मान-क्रोधलक्षणानां कषायाणां संग्रहकिट्टयन्तराणि
अतथा चोक्त जयधवलायामपि-"अधवा तदियसंग्रहकिट्टीए अपुवाहयादिवग्गणाए च अंतरं तदियसंगहकिट्टीअंतरमिदि घेत्तव्यं । संगहकिट्टीफदयतरस्स वि कथंचि संगहकिट्टीअंतरत्तेण णिहे से विरोधाभावादो। ण तहाब्भुवगमे एत्तो उवरि मायालोभाणमंतरस्स अणतगुणत्तविरोधा णेहासंकणिज्जो, लोभस्स सत्थाणप्पाबहुए भएणमाणे एवं होदि त्ति अप्पणो अपुवफद्दएहिं संधाणं कादूण पुणो तत्तो णियत्तिदूण हेटि. मपदं चेव घेत्तण तत्तो लोभमायाणमंतरस्साणंतगुणत्तेण णि सावलंबणे नहासाणुवलंभादो।" इति ।
* न्यगादि च जयधवलाकारैरपि-"अधवा लोभस्स तदियसगहकिट्टोअतरमणंतगुणं इदि वुत्ते लोभमायाणमेव तदियपढमसंगहकिट्टीणं संधिगुणगारो गहेयव्वो। ण च तहावलंबिज्जमाणे उवरिमसुत्तेण पुणरुत्तभावो वि, तदियसंगहकिट्टीअंतरमणंतगुणमिदि सामरणणिद्दे सेण तं कदममिदि संदेहे समुप्पएणे तरिणरायरणमुहेण लोभमायाणमंतरमेव तदियसंगहकिट्टीअंतरमिह विवक्खियं, ण तत्तो अएणमिाद पदुपायणट्ठमुवरिमसुत्तारंभे पुणरुत्तदोसासंभवादो।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org