________________
किट्टिपरिमाणम् ।
किट्टिकरणाद्धाधिकारः अथ क्रोधादीनामुदयेण प्रतिपन्नः कियती: संग्रहकिट्टीः करोति ? इत्यतः प्राहकोहादीणं उदयेणं पडिवनस्स कमसो हि । बारस णव च्छ तिणि य संगहकिट्टीउ जायन्ते ॥८३॥ (उपगीतिः)
क्रोधादीनामुदयेन प्रतिपन्नम्य भवन्ति क्रमशा हि।
द्वादश नव षट तिस्रश्च संग्रह किया जायन्ते ।।३।। इति पदसंस्कारः । 'कोहादोण' इत्यादि, 'क्रोधादीनां क्रोधमानमायालोभलक्षणानामुदयेन 'प्रतिपन्नस्य' क्षपकश्रेणिमारूढस्य क्रमशः 'हि' निश्चयेन द्वादश नव षट् तिस्रश्च संग्रहकिट्टयो 'जायन्ते' उत्पद्यन्ते । उक्तं च कषायप्राभृते - "बारस णव छ तिणि य किट्टोओ होति xxx" इति । ____ भावार्थः पुनरयम्-क्रोधोदयेन क्षपकश्रेणि प्रतिपन्नश्चतुष्कषायाणां द्वादश संग्रहकिट्टीः करोति, एकैककमायस्य संग्रहकिट्टित्रयप्रतिपादनात् । उक्त च सप्ततिकाचूर्णी-"किट्टिकरणखाए वट्टमाणो समए समए चउण्हं संजलणाण बारस किट्टीओ करेति, xxx, एवं कोहेण पडिवण्णस्स।" तथैव कषायप्राभूतचूर्णावपि-"जइ कोहेण उवहायदि, तदो बारस संगहकिट्टीओ होति ।" इति । - संज्वलनमानोदयेन क्षपकश्रेणिं समारूढः शेषसंज्वलनत्रयस्य नव संग्रहकिट्टीः करोति, मानाऽश्वकर्णकरणाद्धायाः प्राक् संज्वलनक्रोधस्य स्पर्धकस्वरूपेण क्षपितत्वेन संज्वलनक्रोधस्य किट्टयसंभवात् । उक्तं च सप्ततिकाचू!-"माणेण पउिवण्णो कोहे खविए उव्वलणालक्खणेणं सेसाणं तिण्हं कसायाणं नव किट्टोओ करेति पुव्वकमेणं ।" इति । एवं कषायप्राभृतचूर्णावपि-"माणेण उवहिदस्स णव संगहकिट्टीओ।" इति ।।
___ मायोदयेन क्षपकश्रेणिं प्रतिपन्नो मायालोभयोः षट् सग्रहकिट्टीनिवर्तयति, मायाश्वकर्णकरणाद्धायाः प्राक् क्रोधमानयोः किट्टिपरिणाममृतं स्पर्धकस्वरूपेण पितत्वात् । उक्तं च सप्ततिकाचू -"मायाए पउिवण्णो कोहमाणेहिं खविरहिं सेसद्गस्स छ किट्टीओ करेति पुव्वकमेणं ।” इति । तथैव कषायप्राभूतचूर्णावपि-"मायाए उवहिवस्स छ संगहकिट्टीओ।" इति ।
संज्वलनलोभोदयेन क्षपकश्रेणिमधिगतः संज्वलनलोभस्य तिखः संग्रहकिट्टीनिवर्तयति, लोभा-ऽश्वकर्णकरणाद्धाया अाक् संज्वलनक्रोधादित्रयस्थ स्पर्धकस्वरूपेण विनाशितत्वात् । उक्तं च सप्ततिकाचूर्णी-"लोभेणं पउिवण्णो हेहतिगे खविए लोभस्स तिणि किडीओ
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org