________________
१५.]
खवगसेढी
[ गाथा-८२. प्रथमवर्गणात इत्यर्थः, 'अनन्तगुणोना' अनन्तगुणहीना 'ज्येष्ठा किद्विस्तु' क्रोधस्य सर्वोत्कृष्टा कि ट्टिस्तु भवति, जघन्यवर्गणागतानुभागतोऽनन्तगुणहीनरसतामाषाद्य किट्टिनिर्वर्तनस्य प्रतिपादितत्वात् ।
ननु प्रथमसमये कियत्यः किट्टयो भवन्ति ? इत्याह- किट्टीओ' इत्यादि, 'किट्टयः' चतुर्णामपि संज्वलनानां विट्टयः स्पर्धकस्याऽनन्ततमभागप्रमिता भवन्ति । इदमुक्तं भवतिएकस्मिन् स्पर्धके वर्गणा अभव्येभ्योऽनन्तगुणाः सिद्धानां चाऽनन्ततमभागमिता भवन्ति, तासामेकाऽनन्ततमभागप्रमाणाः किट्टयो निर्वय॑न्ते। उक्तं च कषायप्राभृतचूर्णी-"एदाओ सव्वाओ विचउधिहाओ किट्टीओ एयफद्दयवग्गणाणमणंतभागो पगणणादो।" इति ॥८१॥
अथ क्रोधादीनामेकैककपायस्य किट्टिपरिमाणं निदिदिक्षुराहएगेगस्स कसायस्स तिण्णि तिषिण अहवाऽणंता। संगहकिट्टी तिन्नि अवतरकिट्टी अणंताओ॥२॥ (उपगीतिः)
एकैकस्य कषायस्य तिस्रस्तिस्रो-ऽथवा-ऽनन्ताः ।
संग्रह किट्टयस्तिस्रो-ऽवान्तरकिट्टयो-ऽनन्ताः ॥८२।। इति पदसंस्कारः। 'एगेगस्स' इत्यादि, किट्टिकरणाद्धायाम् "एकस्य कषायस्य' संज्वलनक्रोधादीनामेकैकस्य कषायस्येत्यर्थः 'तिस्रस्तिस्त्रः' “वीप्सायाम" (सिद्धहेम० ७-४-८०) इत्यनेन द्विवचनम्, किट्टयो भवन्ति, प्रथमादिसंग्रहकिट्टिभेदात् । उक्तं च सप्ततिकाचूर्णी-“एककस्स कसायरस तिपिण तिपिण-पढमकिट्टी, बितियकिट्टी, ततियकिट्टि त्ति ।" इति । 'अहवा' ति 'अथवा' प्रकारान्तरेण क्रोधादीनामेकैककषापरया-ऽनन्ताः किट्टयो जायन्ते ।
ननु प्रकारद्वयेन किट्टिपरिमाणकथने कोऽभिप्रायः ? इत्यत आह-'संगह०' इत्यादि, 'संग्रहकियस्तिस्रः' एकैककषायस्य यास्तिस्रस्तिस्रः विट्टयः प्रोक्ताः, तातिपः किट्टयः संग्रहकिय इति व्यपदिश्यते इत्यर्थः । उक्तं च कषायप्राभूतचूर्णी-“एक्ककम्हि कसाए तिणि तिण्णि संगहकिट्टीयो त्ति एवं तिग तिग।" इति । 'अवंतर०' इत्यादि, 'अवान्तरकिट्टयोऽनन्ताः' एकैकस्य कषायस्य या अनन्ताः किट्टय उत्पद्यन्ते, ता अवान्तरकिट्टयो भण्यन्ते, गणनातश्च ता अनन्ता भवन्ति । कुतः ? इति चेत् , उच्यते-एकस्यां संग्रहकिट्टौ अनन्तानामवान्तरकिट्टीनामु. पलम्मादेकैककषायस्या-ऽनन्तकिट्टयः सूपपद्यन्ते । यदुक्तं कषायप्राभूतचूर्णी- एक्ककिस्से संगहकिट्टीए अणंताओ त्ति एदेण अधवा अणंताओ जादा ।" इति । ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org