________________
१५२ ]
खवगसेढी
[गाथा-८४-८५ करेति।" इति । तथैव कषायमाभृतचूर्णावपि-"लोभेण उपट्टिदस्स तिणि किट्टीओ।" इति । ॥ ८३ ॥
कषायचतुष्कस्य संग्रहक्ट्टिीरुक्त्वा सम्प्रत्येकैकस्यां संग्रहकिट्टौ कति किट्टयो भवन्ति ? तथा पूर्वपूर्वसमयत उत्तरोत्तरसमये कियत्यः किट्टयो जायन्ते ? इत्याशङ्कय प्राह
एगेगाए संगहकिट्टीअ अवंतराअ उ अणंता। होति य किट्टीअो पडिसमयमसंखगुणहीणाश्रो ॥४॥
एकैकस्यां संग्रहकिट्टी अवान्तरास्त्वनन्ताः।
भवन्ति च किट्टयः प्रतिसमयमसंख्यगुणहीनाः ॥८४।। इति पदसंस्कारः । 'एगेगाए' इत्यादि, संज्वलनचतुष्कस्यकैकस्यां संग्रहकिटौ अवान्तरास्तु कियोऽनन्ता भवन्ति, एकैकसंग्रहकिट्टी अवयवकिट्टयोऽनन्ता भवन्तीत्यर्थः । 'होति य' इत्यादि, 'भवन्ति च' जायन्ते च 'प्रतिसमय समये समये इति वीप्सायाम् “योग्यतावीप्सार्थानतिवृत्तिसादृश्ये (सिद्धहेम० ३-१.४०) इति सूत्रेणा-ऽव्ययीभावसमासः, अनुसमयमित्यर्थः; 'किट्टयः' कषायचतुष्कस्याऽभिनवाऽवान्तरकिट्टयोऽसंख्येयगुणहीनाः । इदमुक्तं भवति-किट्टिकरणाद्धाप्रथमसमये बहूरवान्तरविट्टीः करोति, द्वितीयसमयेऽसंख्येयगुणहीना अभिनवा अवान्तरकिट्टीनिवर्तयति, असंख्येयभागमात्रा निवर्तयतीत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-"विदियसमए अण्णाओ अपुवाओ किट्टीओ करेदि, पढमसमए णियत्तिदकिट्टीणमसंखेज्जभागमेत्ताओ।" इति एवं पूर्वपूर्वत उत्तरोत्तरसमये-ऽसंख्येयगुणहीना अभिनवा किट्टयस्तावद्वक्तव्याः, यावत् किट्टिकरणाद्धायाश्चरमसमयः ॥८४॥
ननु प्रतिसमय किट्टितया परिणमनाय कियद् दलं गृह्णाति ? इति परमाशङ्कय प्राहदलिअं उ पडिखणं उकिरइ असंखगुणिअं य किट्टीणं । अह किट्टीणं अणुभागप्पाबहुअं भणिज्जेइ ॥८५ ॥ . दलिकं तु प्रतिक्षणमुत्किरत्यसंख्यगुणितं च किट्टिभ्यः ।
अथ किट्टीनामनुभागाल्पबहुत्वं भण्यते ॥८५।। इति पदसंस्कारः । 'दलिअं' इत्यादि, तत्र 'किट्टीणं' त्ति प्राकृतत्वात् 'तादथ्य (सिद्धहेम० २-२-५४) इति सूत्रेण विहितायाश्चतुर्थ्याः स्थाने "चतुर्थ्याःषष्ठी” (सिद्धहेम०८-१-१३१) इति सूत्रेण षष्ठी विमक्तिः, किट्टिभ्यः किट्टितया परिणमनायेत्यर्थः 'दलिक' प्रदेशाग्रं तु 'प्रतिक्षणम्' अनुसमयम् असंख्यगुणितं च 'उत्किरति' अपकर्षति । चकारः पादपूशैं । इदमुक्तं भवति-किट्टिकरणाद्धाप्रथम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org