________________
कियाख्या ] किट्टिकरणाद्धाधिकारः
[ १४७ त्यागेन व्यवस्थाप्य लोभजघन्यकिट्टरारभ्य पूर्वपूर्वतो नियमेनाऽनन्तगुणवृद्ध्या तावद् विन्यस्यति, यावत् क्रोधस्योत्कृष्टकिट्टिः । असत्कल्पनया किट्टिषु रसाऽविभागाः पञ्च, विंशतिः (५, २०) इत्यादि । नया-पूर्वस्पर्धक प्रथमवगणातः क्रोधस्य सर्वोत्कृष्टा किट्टिरप्यनन्तगुणहीना वर्तते । उक्तं च कषायप्राभृतचूर्णी-"लोभस्स जहणिया किट्टी अणुभागेहिं थोवा, विदियकिटो अणुभागेहिं अणंतगुणा, तदिया किट्टी अणुभागेहिं अणंतगुणा, एवमणंतराणंतरेण सव्वत्थ अणंतगुणा जाव कोधस्स चरिमकिहि त्ति । उक्कस्सिया वि किहो आदिफद्दयआदिवग्गणाए अणंतभागो ।" इति । इह संज्वलानानामनुभागसत्कर्माऽत्यन्तं कृश्यते-अल्पीक्रियते, तस्मात् किट्टिरिति व्यपदिश्यते इति संक्षेपः । उक्तं च कषायप्राभृतचूर्णी- 'किसं कम्मं कदं जम्हा, तम्हा किहो।” इति । किट्टिकरणाद्धाप्रथमसमये संज्वलनचतुष्कस्य पूर्वापूर्वस्पर्धकेभ्यो दलं गृहीत्वा निरुक्तस्वरूपाः किट्टीनिवर्तयति ।।
ननु संज्वलनचतुष्कस्य पूर्वापर्वस्पर्धकेभ्यो दलिकमादाय किट्टीनिवर्तयति, तर्हि पर्वापर्वस्पर्धकेषु केन क्रमेण प्रदेशाग्रं विद्यते ? इति चेत्, शृणुत-संज्वलनक्रोधस्य सर्वपूर्वापूर्वस्पर्धकेषु सर्वप्रभूतं दलं तिष्ठति, ततः संख्येयगुणहीनं संज्वलनलोभस्य निखिलपूर्वापूर्वस्पर्धकेषु, ततो विशेषहीनं संज्वलनमायाया निखिलपूर्वापूर्वस्पधकेषु, ततोऽपि विशेषहीनं संज्वलनमानस्य सर्वपूर्वापूर्वस्पर्धकेषु तिष्ठति । कथमेतदवसीयते ? इति चेत् , उच्यते-अन्तरकरणे कृते सत्यानुपूर्वीसंक्रमदर्शनात् षण्णोकषायाणां पुरुषवेदस्य च दलं संज्वलनक्रोधे एव संक्रमयति । तेन संज्वलनक्रोधस्य पूर्वापूर्वस्पर्धकेषु सर्वप्रभूतं दलं भवति । तथाहि—प्राक चारित्रमोहनीयसत्तागतदलं विभागद्वये विमक्तमासीत्, एको भागः कषायाणामासीत्, अन्यः पुननोंकपायाणाम् । तत्राऽपि कपायाणां दलं चारित्रमोहसकलदलस्य किश्चिदधिकाप्रमाणमासीन् । नोकषायाणां पुनश्चारित्रमोहसत्कसकलदलस्य किञ्चिन्न्यूनाधप्रमितमासीत् । अनन्तानुबन्ध्यप्रत्यख्यानावरणप्रत्याख्यानावरणानां क्षीणत्वात् तेषां प्रभूतं दलं संक्रमेण संबलनक्रोधमानमायालोभलब्धम् । तेन चारित्रमोहनीयसत्तागतदलसत्का-ऽर्धदलं यत् कषायसत्कमासीत्, तद्दलं संज्वलनचतुष्टये विभक्तव्यम् । विभक्त च संज्वलनक्रोधेन मोहनीयसत्तागतसकलदलस्या-ऽष्टभागकल्पं दलं प्राप्तम् । एवं संज्वलनमानेन संज्वलनमायायाः सर्वमोहनीयदलस्याष्टभागदेशीयं प्राप्तम, लोभेन तु मोहनीयसर्वदलस्य किञ्चिदधिका-ऽष्टभागप्रमाणं दलं प्राप्तम् , सत्कर्मणि लोभदलस्येतरतः सर्वप्रभूत्वदर्शनात् । तथा चाऽत्राऽल्पबहुत्वम्-संज्वलनलोभस्य प्रभूतं दलम् , ततो विशेषहीनं संज्वलनमायायाः, ततोऽपि विशेषहीनं क्रोधस्य, ततोऽपि मानस्य विशेषहीनं भवति । एवं प्रत्येकस्मिन् क्रोधादिकषाये आसन्नाष्टभागप्रमाणं दलं विद्यते । नोकपायसत्कस्य मोहनीयसर्वदलसत्ककिश्चिन्न्यूनार्धमात्रदलस्य संज्वलनक्रोधे संक्रमेण प्रक्षेपात् किश्चिन्न्यूनपञ्चाष्टभागप्रमाणदलं जायते । लोभे तु किश्चिदधिकैकाष्टभागप्रमितं तिष्ठति, मानमाययोः पुनः किञ्चिन्न्यूनाष्टभाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org