________________
[ गाथा - ८०
अश्वकर्णकरणाद्धां निरूप्य "किट्टिकरण" इत्यनेनोद्दिष्टं पञ्चमाधिकारं किट्टिकरणावालक्षणं व्याचिख्यासुराह-
१४६ ]
गढी
पुणे करणे आढवे किट्टिकरणं तम्मि ।
निव्वत्तर पुव्वा पुव्वफड्डगत्तो य किट्टी ॥ ८०॥ (उपगीतिः)
Jain Education International
पूर्णे इयक आरभते किट्टिकरणं तस्मिन् । निर्वर्तयते पूर्वाऽपूर्वस्पर्धकेभ्यश्च किट्टीः ॥ ०॥ इति पदसंस्कारः ।
1
'पुणे' इत्यादि, तत्र 'हयकपणे' ति 'हयकर्णे' 'भीमो भीमसेनः' इति न्यायेन कर्णकरणकाले 'पूर्णे' व्यतिक्रान्ते क्षपकश्रेणि प्रतिपन्नः किट्टिकरणम् ' आढवेइ' त्ति आरभते, किट्टिकरणकालं प्रविशतीत्यर्थः । इदमत्र हृदयम् - हास्यषट्के सवथा क्षीणे यः क्रोधवेदनकालः, तस्य यो विभागाः कर्तव्याः । तत्राद्यो विभागोऽश्वकर्णकरणाद्धा, द्वितीयो विभागः किट्टिकरणाद्धा, तृतीयश्च किट्टिवेदनाद्वा । उक्तं च कषायप्राभृतचूर्णी - "छसु कम्मेसु संक्रुद्धेसु जो कोधवेदगडा, तिस्से कोधवेदगडाए तिन्नि भागा । जो तत्थ पढमतिभागो (सो) अस्सhor करणा, विदियो तिभागो किट्टोकरणडा, तदियनिभागो किट्टीवेदगडा ।" इति । इदन्त्ववधेयम् — यथाऽस्मत्कृतोपशमनाकरणटीकायां चारित्रमोहोशमनाधिकारे ऽश्वकर्णकरणाद्धादयो यथाक्रमं विशेषहीना उक्ताः, तथैवात्राऽप्यश्वकर्णकरणाद्धा, या हास्यपट्के क्षीणे शेषक्रोधवेदनाद्वायाः किञ्चिदधिकत्रि भागमात्रा, सा प्रभूता । ततो विशेषहीना किट्टिकरणाद्धा किञ्चिन्न्यून त्रिभागप्रमिता, ततोऽपि किट्टिवेदनाद्वा किञ्चिन्न्यूनत्रिभागमिता विद्यमानाऽपि विशेषहीना संभवतीति वयं ब्रूमः 1
किट्टिकरणाद्धां प्रविष्टः सन् किं करोति ? इत्याह- 'तम्मि' इत्यादि, 'तस्मिन् ' किट्टि - करणकाले पूर्वापूर्वस्पर्धकेभ्यः किट्टी: 'निर्वर्तयते' करोति । इदमुक्तं भवति — किट्टयो नाम संज्वलनानां पूर्वा-पूर्वस्पर्धकेभ्यो वर्गणा गृहीत्वा तासामनन्तगुणहीनरसतामापाद्यैकोत्तररसाविभागवृद्धेः परित्यागेनाऽनन्तगुणवृहदन्तरालतया व्यवस्थापनम् । इदमत्र हृदयम् - अपूर्वस्पर्धका नि
पूर्वपर्धा गृहीत्वाऽनन्तगुणहीनरसतामापाद्य ता एकोत्तररमाऽविभागवृद्धया स्थापयति स्म | सत्कल्पनया पूर्वस्पर्धक सत्कानां यासां वर्गणानामनुभागा-ऽविभागा शीत्युत्तरषोडशशतानि, एकाशीत्यधिकषोडशशतानि, ( १६८०, १६८१ ) इत्यादि, आसन्, पूर्वस्पर्धकेषु तासामेवाऽनन्तगुणहीनरसतामापाद्यैकोत्तरवृद्धया रसाविभागा अष्टापष्ट्य तरशतम्, एकोनसप्तत्यधिकशतम् (१६८, १६६ ) इत्यादि, स्थाप्यन्ते स्म । किट्टिकरणाद्धायां तु सर्वजघन्याऽपूर्वस्पर्धकतोऽप्यनन्तगुणहीनरसतामापाद्य पूर्वापूर्वस्पर्धकानां वर्गणा एकोत्तररसाऽविभागवृद्धिपरि
For Private & Personal Use Only
www.jainelibrary.org