________________
घरमसमये बन्धसत्ते ] अश्वकर्णकरणाधिकारः
[ १४५ क्रोधमानमायालोभलक्षणस्य 'बन्धः' स्थितिबन्धो-ऽष्टवर्षप्रमितो भवति । उक्तं च कषायप्राभूतचूर्णी-"अस्सकण्णकारगस्स चरिमसमये संजलणाणं हिदिबंधो अवस्साणि" इति । अश्वकर्णकरणाद्धाप्रथमसमये यो-ऽन्तमुहूतन्यूनषोडशवर्षप्रमाणः स्थितिबन्ध आसीत, स प्रतिस्थितिबन्धाद्धमन्तमुहूर्तेन हीयमानो भवन्नश्वकर्णकरणाद्धाचरमसमये-ऽष्टवार्षिको जायते इत्यर्थः ।
'इयराण' इत्यादि, इतरेषां' ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तराय-नाम-गोत्रकर्मणां संख्यवर्षसहस्राणि स्थितिबन्धो भवति । उक्तं च कषायप्राभृतचूर्णी--"सेसाणं कम्माणं हिदिवंधो संखेन्जाणि वस्ससहस्साणि ।" इति । अश्वकर्णकरणाद्धाप्रथमसमये यः.संख्यातसहस्रवर्षमात्रः स्थितिबन्ध आसीत्, स प्रत्यन्तमु हूत संख्येयगुणहीनो भवन् संख्यातेषु स्थितिबन्धसहस्रषु गतेष्वपि संख्यातवर्षसहस्रप्रमाण एव भवतीति फलितार्थः । सम्प्रति स्थितिसत्त्वं वक्तुकामः प्रतिजानीते-'भणिमु' इत्यादि, स्थितिसत्त्वं 'भणामः'प्रतिपादयिष्यामः । अथ प्रतिज्ञातमेवाह
घाईण संखवाससहस्साणि पराणऽसंखवासाइं ! एवं हयकरणकरणअद्धं खलु परिसमावेइ ॥७॥
घातिनां संख्यवर्षसहस्राणि परेषामसंख्यवर्षाणि।।
एवं हयकर्णकरणाद्धां खलु परिसमापयति ॥७६।। इति पदसंस्कारः । 'घाईण' इत्यादि, अश्वकर्णकरणाद्धाचरमसमये 'घातिनां' ज्ञानावरण-दर्शनावरणा-ऽन्तरायमोहनीयकर्मणां संख्यवर्षसहस्राणि स्थितिसत्वं भवति । उक्तं च कषायप्राभूतचूर्णी-"चउण्हं घादिकम्माणं हिदिसंतकम्मं संखेज्जाणि वस्ससहस्साणि।" इति । इदमत्र हृदयम्-अश्वकर्णकरणाद्धाप्रथमसमये घातिचतुष्टयस्य संख्येयसहस्रवर्षमात्र स्थितिसत्त्वमासीत् ,तत्प्रतिस्थितिघातं संख्येयगुणहीनं भवत् संख्यातसहस्रषु स्थितिघातेषु ब्रजितेष्वपि चरमसमये संख्येयसहस्रवर्षप्रमाणं भवति । 'पराण' इत्यादि, 'परेपाम्' अघातिनां नामगोत्रवेदनीयरूपाणामित्यर्थः, असंख्यवर्षाणि स्थितिसचं भवति । उक्तं च कषायप्राभूतचूर्णी-"णामागोदवेदणीयाणं हिदिसंतकम्ममसंखेज्जाणि वस्ससहस्साणि।" इति । एतदुक्तं भवति-अश्वकर्णकरणाद्धाप्रथमसमये यदघातिकर्मणामसंख्यातवर्षप्रमाणं स्थितिसत्त्वमासीत्, तत् प्रतिस्थितिघातेना-ऽसंख्येयगुणहीनं मवत् संख्यातसहस्रस्थितिघातेषु व्यतिक्रान्तेष्वपि चरमसमये-संख्येयवर्षप्रमितं तिष्ठति ।
'एवं' इत्यादि, 'एवं प्रागुक्तविधिना 'हयकर्णकरणाद्धाम्' अश्वकर्णकरणाद्धामन्तर्मुहूर्तप्रमाणा खलु ‘समापयति' निष्ठां गमयति ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org