SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १४४ ] खवगसेढी [ गाथा-७८ (१६) ततो मानस्य पूर्वस्पर्धकगतवर्गणा अनन्तगुणा अभिधातव्याः । गुणकारश्चैकस्पर्धकगतवर्गणाराशिमात्रो बोध्यः । (१७) ततः क्रोधस्य पूर्व स्पर्धकान्यनन्तगुणानि निगदितव्यानि । हेतुस्तु त्रयोदशपदवद् बोधनीयः। (१८) ततः क्रोधस्य पूर्वस्पर्धकगतवर्गणा अनन्तगुणा अभिधातव्याः । गुणकारश्चैकस्पर्धकवर्गणामितो ज्ञातव्यः । उक्तं च कषायप्राभृतचूर्णी-'अस्सकण्णकरणस्स पढमे अणुभागखंडए हदे अणुभागस्स अप्पाबहुअंवत्तइस्सामो । तं जहा (१) सव्वत्थोवाणि कोहस्स अपुव्वफद्दयाणि, (२) माणस्स अपुव्वफद्दयाणि विसेसाहियाणि, (३) मायाए अपुव्वफद्दयाणि विसेसाहियाणि, (४) लोभस्स अपुव्वफदयाणि विसेसाहियाणि, (५) एयपदेसगुणहाणिहाणंतरफदयाणि असंखेज्जगुणाणि (६) एयफदयवग्गणाओ अणंतगुणाओ, (७) कोधस्स अपुव्वफद्दयवग्गणाओ अणंतगुणाओ, (८) माणस्स अपव्वफदयवग्गणाओ विसेसाहियाओ, (९) मायाए अपव्वफदयवग्गणाओ विसेसाहियाओ,(१०) लोभस्स अपुव्वफदयवग्गणाओ विसेसाहियाओ। (११) लोभस्स पुव्वफदयाणि अणंतगुणाणि, (१२) तेसिं चेव वग्गणाओ अणंतगुणाओ, (१६) मायाए पुव्वफदयाणि अणंतगुणाणि, (१४) तेसिं चेव वग्गणाओ अणंतगुणाओ, (१५) माणस्स पुव्वफदयाणि अणंतगुणाणि, (१६) तेसिं चेव वग्गणाओ अणंतगुणाओ, (१७) कोहस्स पुव्वफदयाणि अणंतगुणाणि , (१८) तेसिं चेव वग्गणाओ अणंतगुणाओ।" इति । ७४-७५-७६-७७ ।। अश्वकर्णकरणाद्धायां प्रथमेऽनुभागखण्डे ब्रजिते द्वितीयमनुभागखण्डं घातयितुमारभ्यते । एवं सहस्ररनुभागखण्डरश्वकर्णकरणाद्धासत्का प्रथमस्थितिघाताद्धा प्रथमस्थितिबन्धाद्धा च पूर्यते। एवं प्रतिसमयमसंख्येयगुणहीनान्यसंख्येयगुणहीनानि नवान्यपूर्वस्पर्ध कानि कुर्वन् स्थितिघातसहस्ररश्वकर्णकरणाद्धायाश्चरमसमयं प्राप्नोति, तदानीं स्थितिबन्धं व्याजिहीर्घ राह चरिमे समये मोहस्स अटुवस्सपमिश्रो हवइ बंधो । इयराण संखवस्ससहस्साई भणिमु ठिइसंतं ॥७॥ चरमे समये मोहस्या-ऽष्टवर्षप्रमितो भवति बन्ध । इतरेषां संख्यवर्षसहस्राणि भणामः स्थितिसत्त्वम् ।।७।। इति पदसत्कारः ।। चरिमे समये' इत्यादि, 'चरमे समये' अश्वकर्णकरणाद्धाचरमसमये 'मोहस्य' संज्वलन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy