SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अष्टादशपदानामल्पबहुत्वम् ] अश्वकर्णकरणाधिकारः [ १४३ सर्वपूर्वस्पर्धकान्यनन्तगुणानि भवन्ति, तथैकस्पर्धकगतवर्गणातो नानाद्विगुणहानीनामनन्तगुणत्वात् सर्वा-ऽपूर्वस्पर्धकगतवर्गणातो लोभस्य पूर्वस्पर्धकान्यनन्तगुणानि सिध्यन्ति । न्यास: सकलपूर्वस्पर्धकानि = एकद्विगुणहानिगतस्पर्धकानि x नानाद्विगुणहानयः नानाद्विगुणहानयः = एकस्पर्धकगतवर्गणाः x अनन्तराशिः .:. सकलानि पूर्वस्पर्धकानि = एकद्विगुणहानिगतस्पर्धकानि x एकस्पर्धकगतवर्गणाः x अनन्तराशिः निखिला- पूर्वस्पर्धकानि = एकद्विगुणहानिगतस्पर्धकानि:असंख्यातम् सर्वा-ऽपूर्वस्पर्धकवर्गणाः = एकद्विगुणहानिगतस्पधेकानि x एकस्पर्धकगतवर्गणाः असंख्यातम् कस्पधकगतवर्गणाः ... सर्वाऽपूर्वस्पर्धकगतवर्गणातो लोभस्य पूर्वस्पर्धकानि असंख्यातम् .x १ द्विगुणहानिस्पर्धकानि १ स्पर्धकवर्गणाः ४ अनंतराशिः १ द्विगुणहानिस्पर्धकानि x १ स्पर्धकगतवर्गणाः इत्येतावद्गुणानि = असंख्यातम् अनन्तराशिरित्येतावद्गुणानि भवन्ति । (१२) 'सिं च वग्गणा' इत्यादि 'तेषां' लोभपूर्वस्पर्धकानां च वर्गणा अनन्तगुणा भवन्ति 'अणंतगुणाणि' इत्यस्य लिङ्गविपरिणामात् 'अनन्तगुणा' इति पदं लब्धम् । लोभसकलपूर्वस्पर्धकेभ्यो लोभसर्वपूर्वस्पर्धकानां वर्गणा अनन्तगुणा भवन्तीत्यर्थः । गुणकारश्चात्रैकस्पर्धकगतवर्गणाराशिप्रमाणो ज्ञेयः । 'एवं' यथा लोभस्य पूर्वस्पर्धकानि तद्वर्गणाश्च क्रमेणाऽनन्तगणानि निगदितानि, तथैव मायादीनां यथाक्रमं पूर्वस्पर्धकानि तद्वर्गणाश्चाऽनन्तगुणानि तावद्वक्तव्यानि, यावत् क्रोधस्य पूर्वस्पर्धकानां वर्गणाः खलु अनन्तगुणा भवन्ति । अयं भावः (१३) लोभस्य सकलपूर्वस्पर्धकगतवर्गणातो मायायाः पूर्वस्पर्धकान्यनन्तगुणानि वाच्यानि । न च कथमेतदवसीयते ? इति वाच्यम् , प्रथमे ऽनुभागखण्डे घातिते लोमादीनामनुक्रम पूर्वस्पर्धकानामनन्तगुणत्वदर्शनात् । न च भवतु नाम संज्वलनलोभपूर्वस्पर्धकतो मायायाः पूर्वस्पर्धकान्यनन्तगुणानि प्राक् प्रतिपादितत्वात् । संज्वलनलोभपूर्वस्पर्धकगतवर्गणातो मायायाः पूर्वस्पर्धकान्यनन्तगणानि कुतो भवन्ति ? इति वाच्यम्, एकस्पर्धकगतवर्गणागणकारतो पूर्वस्पर्धकगणकारस्या-5 नन्तगुणेन बृहत्तरत्वात् । अयं हेतुरग्रे-ऽपि यथास्थानं योजनीयः । ____(१४) मायापूर्वस्पर्धकतो मायाया वर्गणा अनन्तगुणा निश्चेतव्याः । गुणकारश्चैकस्पर्धकगतवर्गणाप्रमाणो बोद्धव्यः। __ (१५) ततो मानस्य पूर्वस्पर्धकान्यनन्तगणानि बोद्धव्यानि, कारणं तु त्रयोदशपदवद्भणितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy