________________
१४२]
खवगसेढी
[गाथा-७४-७७. इति चेत, उच्यते-एकद्विगुणहानिस्पर्धकानामसंख्येयभागमितान्येवा-ऽपूर्वस्पर्धकानि करोति । तेन पूर्वपदत इदं पदमसंख्येयगुणं सिध्यति । गुणकारश्च पल्योपमप्रथमवर्गमूलस्या-ऽसंख्येयभागकल्पो ज्ञातव्यः । (६) 'तत्तो' इत्यादि, 'तेभ्यः' एकप्रदेशद्विगुणहानिगतस्पर्धकेभ्य एकस्पर्धकवर्गणा 'अनन्तगुणिताः' अनन्तगुणा भवन्ति । अत्र स्पर्धकशब्देन पूर्वस्पर्धकमपूर्वस्पर्धकं वा ग्राह्यम्, उभयत्राऽपि वर्गणानां समानत्वात् । यथैकद्विगुणहानिस्पर्धकान्यभव्येभ्योऽनन्तगुणानि सिद्धानां चाऽनन्तभागमितानि, तथैवैकस्मिन् स्पर्धके वर्गणा अपि अभव्येभ्यो-ऽनन्तगुणाः सिद्धानां चाsनन्तभागकल्पा भवन्ति । किन्त्वेकद्विगुणहानिगतस्पर्धकत एकस्पर्धकगतवर्गणा अनन्तगुणा भवन्तीत्येतदनेनाऽल्पबहुत्वेन ज्ञापितम् ।
(७) 'तत्तो य' इत्यादि, 'ताभ्यश्च' एकस्पर्षकगतवर्गणाभ्यः 'कोहअपुव्वगफडगाणं' ति, अपूर्वशब्दात् “'कश्च"(सिद्धहेम० ८-३-१)इत्यनेन प्राकृतसूत्रेण स्वार्थे कप्रत्ययः, एवमुत्तरत्राऽपि, क्रोधाऽपूर्वस्पर्धकानां' संज्वलनक्रोधसत्का-ऽपूर्वस्पर्धकानां वर्गणा अनन्तगुणा भवन्ति, चकारः 'तत्तो' इत्यस्योत्तरत्राऽनुवृत्यर्थः । पूर्व टेकस्पर्धकगतवर्गणा उक्ताः, अस्मिन् पदे सकलाऽपूर्वस्पर्धकगतवर्गणा भण्यन्ते, अपूर्वस्पर्धकानि त्वेकद्विगुणहानिगतस्पर्धकानामसंख्येयभागप्रमितानि गणनातश्चा-ऽनन्तानि क्रियन्ते । तेन पूर्वपदत इदं पदमनन्तगुणं भवति । गुणकारश्चाऽभव्येभ्योऽनन्तगुणः सिद्धानां चाऽनन्तभागमात्रो बोद्धव्यः । स पुनरेकप्रदेशंद्विगुणहानिगतस्पर्धकानामसंख्येयभागमात्रो भवति । ताभ्यः-क्रोधस्या-ऽपर्वस्पर्धकगतवर्गणाभ्यः 'माणादीण' इत्यादि, 'मानादीनां' मान-माया-लोभलक्षणानां क्रमेण सकलानामपूर्वस्पर्धकानां वर्गणा विशेषाधिका भवन्ति, क्रोधतो मानादीनामपूर्वस्पर्धकानां क्रमेण विशेषाधिकत्वात्, सर्वत्रैकस्मिन् स्पर्धके वर्गणानां समानत्वाच्च ।
तथाहि-(८) संज्वलनक्रोधस्य सकला-ऽपूर्वस्पर्धकगतवर्गणातः संज्वलनमानस्य सकला-ऽपूवस्पर्धकगतवर्गणा विशेषाधिका भवन्ति, क्रोधतो मानस्या-ऽपूर्वस्पर्धकानां विशेषाधिकत्वात् ।
(8) मानस्य सर्वा-ऽपूर्वस्पर्धकवर्गणातो मायाया निखिला- पूर्वस्पर्धकगतवर्गणा विशेषाधिकाः, मानतो मायाया अपूर्वस्पर्धकानां विशेषाधिकत्वात् ।
(१०) ततोऽपि लोभस्य सकलाऽपूर्वस्पर्धगतवर्गणा विशेषाधिकाः, मायातो लोभस्य निखिला-ऽपूर्वस्पर्धकानां विशेषाधिकत्वात् ।
(११) ताभ्यो 'लोभस्य' संज्वलनलोभस्य पूर्वस्पर्धकान्यनन्तगुणानि वक्तव्यानि । कथमेतदवसीयते ? इति चेत् , शृणुत-लोभस्या-ऽपूर्वस्पर्धकानामेकद्विगुणहानिगतस्पर्धकसत्का-ऽसंख्येयभागमात्रत्वात् सकला-ऽपूर्वस्पर्धकतः पूर्वस्पर्धकसत्कायामेकस्यामेव द्विगुणहानौ असंख्येयगुणानि पूर्वस्पर्धकानि तिष्ठन्ति । पूर्वस्पर्धकविषयकाणां नानाद्विगुणहानीनामनन्तत्वात् सर्वा-ऽपूर्वस्पर्धकतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org