________________
अष्टादशपदानामल्पबहुत्वम् । अश्वकर्णकरणाधिकारः
[१४१ अथा-ऽश्वकर्णकरणाद्धायां प्रथमे-ऽनुभागखण्डे विनष्टे-ऽष्टादशपदानामल्पबहुत्वमभिधित्सुराह
इगखंडे पुण्णे-ऽप्पाबहुगं अट्ठारसपयाणं । कोहादोण अपुब्वाइं फड्डाइं विसेसअहियाइं ॥७४॥ (उद्गीतिः) तत्तो एगदुगुणहाणिफड्डगाइं असंखगुणिश्राणि । तत्तो अणंतगुणिया इगफड्डगवग्गणा होन्ति ॥७॥ तत्तो य वग्गणा कोहअपुव्वगफड्डगाणऽणतगुणा । माणादीण अपुब्वगफड्डाणं वग्गणा विसेसऽहिया ॥७६॥ (गीतिः) लोहस्स पुव्वफड्डाणि अणंतगुणाणि वग्गणा सिं य । एवं जाव अणंतगुणा कोहस्स खलु वग्गणा होति ॥७७॥ (गीतिः)
एकखण्डे पूर्णे-ऽल्पबहुत्वमष्टादशपदानाम् । क्रोधादीनामपूर्वाणि स्पर्धकानि विशेषाधिकानि ॥७४।। तत एकद्विगुणहानिस्पर्धकान्यसंख्यगुणितानि । तेभ्यो-ऽनन्तगुणिता एकस्पर्धकवर्गणा भवन्ति ।।७।। ताभ्यश्च वर्गणाः क्रोधा-ऽपूर्वस्पर्धकानामनन्तगुणाः । मानादीनामपूर्वस्पर्धकानां वर्गणा विशेषाधिकाः ॥७६।। लोभस्य पूर्वस्पर्धकान्यनन्तगुणानि वर्गणास्तेषां च ।
एवं यावदनन्तगुणाः क्रोधस्य खलु वर्गणा भवन्ति ।।७७।। इति पदसंस्कारः ।। 'इगखंडे' इत्यादि, 'एकखण्डे' "भामा सत्यभामा” इति न्यायेनात्र खण्डशब्देना-ऽनुभागखण्डं ग्राह्यम् , ततश्चायमर्थः-अश्वकर्णकरणाद्धायामेकस्मिन्ननुभागखण्डे 'पूर्णे' निष्ठां गते घातिते इत्यर्थः, 'अष्टादशपदानाम्' अष्टादशसंख्यकानां पदानां क्रोधा- पूर्वस्पर्धकादिरूपाणाम् 'अल्पबहुत्वं' स्तोकबहुत्वं भणितव्यमिति शेषः । तदेव दर्शयति-'कोहादीण' इत्यादि, 'क्रोधादीनाम्' क्रोधमानभायालोभरूपाणां 'अपूर्वाणि' प्रागुक्तस्वरूपाण्यपूर्वाणि स्पर्धकानि विशेषाधिकानि भवन्ति, विशेषाधिकक्रमेण तेषां निवृत्तेरुक्तत्वात् । एतदुक्तं भवति (१) संज्वलनक्रोधस्या-ऽपूर्वस्पर्धकानि सर्वस्तोकानि, (२) ततः संज्वलनमानस्या-ऽपूर्वस्पर्धकानि विशेषाधिकानि, (३) ततः संज्वलनमायाया अपूर्वस्पर्धकानि विशेषाधिकानि भवन्ति (४) ततो-ऽपि संज्वलनलोभस्या- पूर्वस्पर्धकानि विशेषाधिकानि । (५) 'तत्तो' इत्यादि, 'तेभ्यः' संज्वलनलोभस्या-ऽपूर्वस्पर्धकेभ्य एकद्विगुणहानिस्पर्धकानि 'असंख्यगुणितानि' असंख्येयगुणानि मवन्तीत्यर्थः, किं कारणम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org