________________
१४. ]
खवगसेढी
[ गाथा-७२-७३ कृतचरमाऽपूर्वस्पर्धकस्य चरमवर्गणा । ततः प्रथमपूर्वस्पर्धकस्य प्रथमवर्गणायां विशेषहीनं दलिक निक्षिपति, ततोऽपि द्वितीयवर्गणायां विशेषहीनं ददाति । एवं विशेषहीनक्रमेण तावद् निक्षिपति, यावच्चरमनिक्षपपूर्वस्पर्धकस्य चरमवगणा। उक्तं च कषायप्राभृतचूर्णी-"विदियसमये अपुव्वफदएसु पदेसग्गस्स दिज्जमाणयस्स सेढिपरूवणं वत्तइस्सामो,तं जहा-विदियसमए अपुव्वफद्दयाणमादिवग्गणाए पदेसग्गं बहुअं दिज्जदि, विदियाए वग्गणाए विसेसहोणं । एवमणंतरोवणिधाए विसेसहीणं दिज्जदि ताव, जाव जाणि विदियसमए अपुव्वाणि अपुव्वफद्दयाणि कदाणि, तदो चरिमादो वग्गणादो पढमसमए जाणि अपुवफदयाणि कदाणि, तेसिमादिवग्गणाए दिज्जदि पदेसग्गमसंखेज्जगुणहीणं । तदो विदियाए वग्गणाए विसेसहोणं दिज्जदि, तत्तो पाए अणंतरोवणिधाए सव्वत्थ विसेसहीणं दिज्जदि । पुवफदयाणमादिवग्गणाए विसेसहोणं दिज्जदि। सेसासु वि विसेसहीणं दिज्जदि।" इति । यथा द्वितीयसमये दीयमानदलप्ररूपणा कृता, तथा शेषसमयेष्वपि कर्तव्या, यावदश्वकर्णकरणाद्धाचरमसमयः।
___ अथ द्वितीयादिसमयेषु दृश्यमानदलं प्ररूपयति-दिस्सई' इत्यादि, तत्र 'पुधापुव्वेसु' 'त्ति' 'पूर्वापूर्वेषु' पूर्वस्पर्धकेष्वपूर्वस्पर्धकेषु च विशेषहीनक्रमं दलिकं दृश्यते । तथाहि-अश्वकर्णकरणाद्धाया द्वितीयसमये निर्वयंमानप्रथमा-ऽपूर्वस्पर्धकस्य प्रथमवर्गणायां प्रभूतं दलिकं दृश्यते, ततो द्वितीयवर्गणायां विशेषहीनं दृश्यते । ततोऽपि तृतीयस्यां विशेषहीनम् । एवं विशेषहीनक्रमेण तावद् वाच्यम्, यावद् द्वितीयसमये निवर्त्यमानचरमस्पर्धकस्य चरमवर्गणा । ततः प्रथमसमयकृतप्रथमाऽपूर्वस्पर्धकस्य प्रथमवर्गणायां विशेषहीनं दलिकं दृश्यते । ततो द्वितीयवर्गणायां विशेषहीनं दृश्यते । एवं विशेषहीनक्रमेण तावदभिधातव्यम् , यावच्चरमपूर्वस्पर्धकस्य चरमवर्गणा । अभ्यधायि च कषायप्राभृतचूर्णी-"विदियसमये अपुव्वफदएसु वा पुचफदएसु वा एकेकिस्से वग्गणाए जं दिस्सदि पदेसग्गं, तमपुव्वफद्दयआदिवग्गणाए बहुअं । सेसामु अणंतरोवणिधाए सव्वासु विसेसहीणं ।" इति । अनेन क्रमेण दृश्यमानदलं तावन्निगदितव्यम् , यावदश्वकर्णकरणाद्धायाश्चरमसमयः ।
अश्वकर्णकरणाद्धायामनेन विधिना-ऽपूर्वस्पर्धकानि निर्वर्तयतो जीवस्य प्रथमेऽनुभागखण्डे विनष्टे लोभ-माया-मान-क्रोधानां यथाक्रममनुभागसत्कर्माऽनन्तगुणं भवति । उक्तं च कषायप्राभृतचूर्णी- "जहा तदियसमए एस कमो ताव, जाव पढममणुभागखंउयं चरिमसमयअणुकिण्णं ति, तदो से काले अणुभागसंतकम्मे णाणत्तं । तं जहा-लोभे अणुभागसंतकम्मं थोवं, मायाए अणुभागसंतकम्ममणंतगुणं, माणस्साणुभागसंतकम्ममणंतगुणं, कोहस्साणुभागसंतकम्मणंतगुणं ।" इति । एतच द्वाषष्टितमगाथया प्राग् भावितम् ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org