________________
द्वितीयादिसमयेषु दीयमानदलम् ] अश्वकर्णकरणाधिकारः
[१३६ "पढमसमए अपुव्वफदयाणि णिव्वत्तिदाणि बहुआणि । विदियसमए जाणि अपुव्वाणि अपुव्वफद्दयाणि कदाणि, ताणि असंखेज्जगुणहोणाणि । तदियसमए अपुवाणि अपुव्वफद्दयाणि कदाणि,ताणि असंखेज्जगुणहीणाणि । एवं समए समए जाणि अपुव्वाणि अपुव्वफद्दयाणि कदाणि,ताणि असंखेज्जगुणहीणाणि । इति ॥७१।।
अथा-ऽश्वकर्णकरणाद्धाया द्वितीयादिसमयेषु दीयमानं दृश्यमानं च दलं विवर्णयितुकामो भणति
तक्कालिअसु देइ अपुब्वेसु दलं विसेसूणं । तो पुव्विल्लअपुवादी असंखगुणहीणदलं ॥७२॥ (उपगीतिः) तत्तो विसेसहीणकमेणं जा पुवचरिमाश्रा। दिस्सइ दलिअं पुव्वापुव्वेसु विसेसहीणकमं ॥७३॥ (उपगीतिः)
तात्कालिकेषु ददात्यपूर्वेषु दलं विशेषोनम् । ततः प्राक्तना-ऽपूर्वादौ असंख्यगुणहीनदलम् ।। ७२ ॥ ततो विशेषहीनक्रमेण यावत्पूर्वचरमा।
दृश्यते दलिकं पूर्वापूर्वेषु विशेषहीनक्रमम् ॥ ७३ ।। इति पदसंस्कार । 'तक्कालियेसु' इत्यादि, 'तात्कालिकेषु' तस्मिन् काले भवानि तात्कालिकानि "व्यादिभ्यो णिकेकणी" (सिद्धहेम०६-३-३४) इति सूत्रेण णिकप्रत्ययो वा इकणप्रत्ययो वा, तेषु, तत्कालभाविष्वित्यर्थः, 'अपूर्वेषु' अपूर्वस्पर्धकेषु 'दलं' प्रदेशाग्रं 'विशेषोनं' विशेषहीनं ददाति' निक्षिपति । 'ततः' तात्कालिका-ऽपूर्वस्पर्धकचरमवर्गणातः 'प्राक्तना-ऽपूर्वादो' प्राक्तनसमयकृतापूर्वस्पर्धकप्रथमवर्गणायामसंख्येयगुणहीनदलं ददातीति सम्बध्यते। 'ततः' प्रथमसमयकृता-ऽपूर्वस्पर्धकप्रथमवर्गणातो विशेषहीनक्रमेण यत्तदोः मिथः सापेक्षत्वात् तावद् ददाति 'यावत्पूर्वचरमा' यावत् पूर्वस्पर्धकचरमवर्गणा । भावार्थः पुनरयम्-अश्वकर्णकरणाद्धाद्वितीयसमये प्रथमसमयतो-ऽसंख्येयगुणं दलमपकृष्या-ऽसंख्येयगुणहीनान्यन्यान्यपूर्वस्पर्धकानि निवर्तयति । तत्र द्वितीयसमये निर्वय॑मानप्रथमाऽपर्वस्पर्धकप्रथमवर्गणायां प्रभूतं दलिकं ददाति, ततो द्वितीयवर्गणायां विशेषहीनं दलिकं निक्षिपति, ततोऽपि तृतीयवर्गणायां विशेषहीनं दलं ददाति । एवं क्रमेण तावद् ददाति, यावद् द्वितीयसमयनिर्वयमानचरमा-ऽपूर्वस्पर्धकस्य चरमवर्गणा । द्वितीयसमयनिर्वQमान-चरमा-ऽपूर्वस्पर्धकचरमवर्गणातः प्रथमसमयकृतप्रथमा-ऽपूर्वस्पर्धकस्य प्रथमवर्गणायामसंख्येयगुणहीनं दलिकं ददाति, ततो द्वितीयवर्गणायां विशेषहीनं ददाति, ततस्तृतीयवर्गणायां विशेषहीनं ददाति । एवं विशेषहीनक्रमेण तावद् ददाति, यावत् प्रथमसमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org