________________
प्रथमसमये बन्धोदयौ ] अश्वकर्णकरणाधिकारः
[ १३७ स्पर्धकानामसंख्येयभागमात्रत्वाद् अपूर्वस्पर्धकप्रथमवर्गणात एकद्विगुणहानिस्पर्धकानामसंख्येयमार्ग व्यतिक्रम्य पूर्वस्पर्धकप्रथमवर्गणाऽवतिष्ठते । यद्यपूर्वस्पर्धकप्रथमवर्गणात एकद्विगुणहानिगतस्पर्धकान्यतिक्रम्येरन् , तीपूर्वस्पर्धकप्रथमवर्गणातो द्विगुणहीनाः प्रदेशा भवेयुरर्धाः स्युरित्यर्थः । अत्र त्वेकद्विगुणहानिस्पर्धकानामसंख्येयभाग एव व्यतिक्रान्तः, तेनाऽपर्वस्पर्धकप्रथमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामसंख्येयभागेन हीनं दलं तिष्ठति । इदमत्रा-ऽवधेयम्-न केवलमपूर्वस्पर्धकप्रथमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामसंख्येयभागहीनं दलं दृश्यते, अपि तु प्रथमाऽपूर्वस्पर्धकतो यावत् सकलाऽपूर्वस्पर्धकानां तत्प्रायोग्याऽसंख्येयतमभागकल्पान्यपूर्वस्पर्धकानि न व्यतिक्रम्यन्ते, तावदपूर्वस्पर्धकप्रथमवर्गणातो-ऽनन्तभागहीनं दलं दृश्यते, तदुपरितनसर्वाऽपूर्वस्पर्धकवर्गणायामप्यसंख्येयभागहीनं दलं दृश्यते । पश्यन्तु पाठका यन्त्रकम्-१३ । इति ॥ ६६ ।।
अश्वकर्णकरणाद्धाप्रथमसमये-ऽपूर्वस्पर्धकानि प्ररूप्या-ऽश्वकर्णकरणाद्धाप्रथमसमयेऽनुभागबन्धौदयौ प्रतिपिपादयिपुराहपढमसमये अपुवाणि फड्डगाइं अणंतभागमिश्राइं। हेट्ठाणि पराण उदिण्णाई बंधो तहेवऽयंतगुणूणो ॥७०॥ (आर्यागीतिः)
प्रथमसमये-ऽपूर्वाणि स्पर्धकान्यनन्तभागमितानि ।
अधस्तनानि परेषामुदीर्णानि बन्धस्तथैवाऽनन्तगुणोनः ॥ ७० ॥ इति पदसंस्कारः । 'पढमसमये' इत्यादि, 'प्रथमसमये' अश्वकर्णकरणाद्धाप्रथमसमये 'अपूर्वाणि' अपूर्वस्पर्धकानि 'परेषां' पूर्वस्पर्धकानां च 'अनन्तभागमितानि' अनन्ततमभागकल्पान्यधस्तनानि स्पर्धकान्युदीर्णानि भवन्ति । इदमुक्तं भवति-अश्वकर्णकरणाद्धायाः प्रथमसमयेन क्रियमाणसकला-ऽपूर्वस्पर्धकेभ्यः कियन्तश्चित् प्रदेशास्तदानीमेवोदीरणाप्रयोगेणोदयस्थितौ निक्षिप्यन्ते, न सर्वे प्रदेशाः । एवं पूर्वस्पर्धकानामनन्ततमभागमात्राऽधस्तनाल्पानुभागकपूर्वस्पर्धकेभ्यः कियन्तश्चित् प्रदेशा उदीरणाप्रयोगेणोदयस्थितौ प्रक्षिप्यन्ते, न तु तदुपरितनपूर्वस्पर्धकेभ्यः, नवा-ऽधस्तनपूर्वस्पर्धकेभ्यः सर्वे प्रदेशाः । इत्थं सकलाऽपूर्वस्पर्धकानि पूर्वस्पर्धकानां चाऽ-नन्ततमभागमात्राणि सर्वाण्यधस्तनपूर्वस्पर्धकानि स्वस्वरूपेणोदयन्ति । उक्तं च कषायप्राभृतचूर्णी- "उदयपरूवणा, जहा-पढमसमये चेव अपुव्वफद्दयाणि उदिण्णाणि च अणुदिण्णाणि च, पुव्वफद्दयाणं पि आदोदो अणंतभागो उदिण्णो च अणुदिण्णो च ।” इति । एतेषामक्षराणामयं भावः-अश्वकर्णकरणाद्धाप्रथमसमये परिणम्यमानसर्वा-ऽपूर्वस्पधेकभ्यः कियन्तश्चित् प्रदेशा उदीरणाप्रयोगेणोदयस्थितौ प्रक्षिप्यन्ते, अपूर्वस्पर्धकानां द्वितीयस्थिताववस्थानात्, शेषाश्च न प्रक्षिप्यन्ते । इहोदये निक्षिप्यमाणानपूर्वस्पर्धकसत्कप्रदेशानाश्रित्य चूर्णिकारैरपूर्वस्पर्धकान्युदीर्णानीत्युच्यते, अनिक्षि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org