________________
Jain Education International
१३७] यन्त्रकम्-१३ (चित्रम्-१३)
[ खवगसेढी अनुभागापेक्षयाऽनन्तरोपनिधा-प्रथमापूर्वस्पर्धकप्रथमर्वाणायामनुभागः स्तोकः, ततस्तद्वितीयणायामेकरसाविभागेनाऽधिकः, एवमुत्तरोत्तरवर्गणा
यां वाच्यः, नवरं यत्र द्वयोः स्पधेकयो. सन्धिर्भवति, तत्राऽधस्तनस्पर्धकचरमवर्गणात उपरितनस्पर्धकप्रथमवर्गणायामनुभागः सर्वजीवानन्तगुणर साविभागैरविको भवति । यत्र च पूर्वापूर्वस्पर्धकयोः सन्धिर्भवति, तत्राऽपूर्वस्पर्धकच रमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामनुभागोऽनन्तगुणो
भवति । अनुभागापेक्षया परम्परोपनिधा-प्रथमापूर्वस्पर्धकस्य प्रथमवर्गणातो द्वितीयापूर्वस्पर्धकस्य प्रथमवर्गणायां' रसाविभागा द्विगुणा भवन्ति,
तृतीयस्पर्धकप्रथमवणायां त्रिगुणाः, एवं यतिसंख्यं स्पर्धकम, तत्संख्यगुणा रसाविभागाः प्रथमस्पर्धकप्रथमवर्गणारसाऽविभागापेक्षया भवन्ति । दृश्यमानदलापेक्षया-ऽनन्तरोपनिधा दृश्यमानदलमपूर्वस्पर्धकस्य प्रथमवर्गणायां प्रभूतं दलं भवति, ततो द्वितीयवर्गणायां विशेषहीनम् , एवमुत्तरोत्तर
वर्गणायां तावद्वाच्यम् , यावद् चरमपूर्वस्पर्धकस्य चरमवर्गणा। दृश्यमानदलापेक्षया परम्परोपनिधा-प्रथमापूर्वस्पर्धकत आरभ्य यावत् सकलापूर्वस्पर्धकानामसंख्ये बतमभागकल्पान्यनन्तान्यपूर्वस्पर्धकानि
व्यतिक्रम्यन्ते, तावदपूर्वस्पर्धकप्रथमवर्गणातो कस्याञ्चिदपि वर्गणायामनन्तभागहीनं दल दृश्यते, ततः परं सर्वापूर्वस्पर्धकप्रथमवर्गणायां प्रथमपूर्वसर्धकप्रथमवर्गणायां चाऽसंख्येयभागहीनं दलं दृश्यते ।
For Private & Personal Use Only
www.jainelibrary.org