SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पूर्वस्पर्धकेषु दीयमानदलम् ] अश्वकर्णकरणाधिकारः [ १३५ अथ पूर्वस्पर्धकेषु दीयमानं दलं प्ररुरूपयिषुराह-'तओ' इत्यादि, 'ततः' अपूर्वस्पर्धकतः परं चरमाऽपूर्वस्पर्धकचरमवर्गणातः परमित्यर्थः 'पूर्वादौ' पूर्वस्पर्धकादिवर्गणायां प्रथमपूर्वस्पर्धकप्रथमवर्गणायामित्यर्थः, 'असंख्यगुणोनम्' असंख्येयगुणहीनं दलं ददाति । इदमुक्तं भवतिचरमा-ऽपूर्वस्पर्धकचरमवर्गणायां यावद् दलं ददाति, ततोऽसंख्येयगुणहीनं प्रथमपूर्वस्पर्धकप्रथमवर्गणायां ददाति । किं कारणम् ? इति चेद् , उच्यते-पूर्वस्पर्धकप्रथमवर्गणागतदलं सार्धद्विगुणहान्या गुण्यते, तदा सत्तागतसकलदलं प्राप्यते । सत्तागतसर्वदलमुत्कर्षणापकर्षणमागहारेण विभज्यैकभागप्रमाणदलमुत्किरति । उत्कीर्णदलं पुनः पल्योपमा-ऽसंख्येयभागेन भक्त्वैकभागप्रमाणदलमपूर्वस्पर्धकेषु विशेषहीनक्रमेण ददत् चरमा-ऽपूर्वस्पर्धकचरमवर्गणायां पूर्वस्पर्धकप्रथमवर्गणागतदलिकत एकचयेनाऽधिकं ददाति । शेषा-ऽसंख्येयबहुभागप्रमाणं दलं विशेषहीनक्रमेण सर्वपूर्वस्पर्धकवर्गणासु ददाति, तत्र प्रथमपूर्वस्पर्धकप्रथमवर्गणायां यावद्दलं ददाति, तावद्दलं यदीतरवर्गणास्वपि दद्यात्, तर्हि सार्धद्विगुणहानिप्रमाणवर्गणासु गतासूत्कीर्णदलस्याऽसंख्येयबहुभागप्रमाणं दलं परिसमाप्याद् इति कृत्वोत्कीर्णदलस्या-ऽसंख्येयबहुभागप्रमितदलं सार्धद्विगुणहान्या विभज्यते, तदा य एक भागो लभ्यते, तावन्मानं दीयमानं दलं प्रथमपूर्वस्पर्धकप्रथमवर्गणायां भवति । तच्च प्रथमपूर्वस्पर्धकप्रथमवर्गणाप्रतिबद्धप्राक्तनसत्तागतदलस्या-ऽसंख्येयभागमात्रं भवति । तेन प्रथमपूर्वस्पर्धकप्रथमवर्गणायां दीयमानदलमपूर्वस्पर्धकचरमवर्गणातो-ऽसंख्येयगुणहीनं भवति, चरमा-ऽपूर्वस्पर्धकचरमवर्गणायां दीयमानदलस्यैकचयेनाऽधिकपूर्वस्पर्धकप्रथमवर्गणागतदलपमितत्वात् प्रथमपूर्वस्पर्धकप्रथमवर्गणायां च दीयमानदलस्य स्वपुरातनसत्तागतदलसत्का-ऽसंख्येयभागप्रमाणत्वात् । अभ्यधायि च कषायप्राभृतचूर्णी-"तदो चरिमादो अपुव्वफद्दयवग्गणादो पढमस्स पुन्वफद्दयस्स आदिवग्गणाए असंखेज्जगुणहीर्ण देदि।" इति । न्यास :सत्तागतदलम् = प्रथमपूर्वस्पर्धकप्रथमवर्गणागतदलम् x सार्धद्विगुणहानिः उत्कीर्यमाणदलम = सत्तागतदलम् : उत्कर्षणापकर्षणभागहारः अपूर्वस्पर्धकार्थं गृह्यमाणं दलम् = उत्कीर्यमाणदलम् : पल्योपमा- संख्येयभागः । पूर्वस्पर्धकेषु निक्षिप्यमाणं दलम् = उत्कीर्यमाणदलम्- अपूर्वस्पर्धकतया परिणमनाय गृहीतदलम प्रथमपूर्वस्पर्धकप्रथमवर्गणायां दीयमानं दलम् पूर्वस्पर्धकेषु निक्षिप्यमाणं दलम् : सार्धद्विगुणहानिः = स्वसत्तागतदलम् : असंख्यातम् चरमा-ऽपूर्वस्पर्धकचरमवर्गणायां दीयमानदलम् = आद्यपूर्वस्पर्धकप्रथमवर्गणादलम्+एकाचयः । ...चरमा-ऽपूर्वस्पर्धकचरमवर्गणायां दीयमानदलतः प्रथमपूर्वस्पर्धकप्रथमवर्गणायामसंख्येयगुणहीनं दलं ददाति । ___ एतर्हि पूर्वस्पर्धकानां शेषवर्गणासु दलिकनिक्षेपं वक्तुकाम आह–'सेसासु' इत्यादि, 'शेषासु' प्रथमपूर्वस्पर्धकप्रथमवर्गणां वर्जयित्वा शेषासु पूर्वस्पर्धकानां सर्ववर्गणासु पुनर्विशेषोनं दलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy