________________
१३६ ] खवगसेढी
[गाथा-६६ ददातीति सम्बध्यते । तथाहि-प्रथमपूर्वस्पर्धकप्रथमवर्गणायां दीयमानदलतस्तद्वितीयवर्गणायां विशेषहीनं दलं ददाति, विशेषश्चो-ऽनन्ततमभागो बोद्धव्यः । ततोऽपि तृतीयवर्गणायां विशेषहीनं दलं ददाति । एवंक्रमेण तावद्वक्तव्यम् , यावच्चरमनिक्षेपपर्वस्पर्धकस्य चरमवर्गणा। उक्तं च कषायप्राभृतचूर्णी-"तदो विदियाए पुवफद्दयवग्गणाए विसेसहोणं देदि, सेसास सव्वासु पुवफद्दयवग्गण सु विसेसहोणं देदि ।" इति ॥८॥
दीयमानदलमभिधाय साम्प्रतं पूर्वापूर्वस्पर्धकेषु दृश्यमानदलं प्ररूपयतिदिस्सइ दलिअं पुव्वापुब्वेसु फड्डगेसु गोपुच्छेणं । पुव्वाईअ अपुब्वाइत्तो दिस्सइ असंखभागविहीणं ॥६६॥ (अार्यागीतिः) दृश्यते दलिकं पूर्वा-ऽपूर्वषु स्पर्धकेपु गोपुच्छेन ।
पूर्वादावपूर्वादितो दृश्यते ऽसंख्यभागविहीनम् ॥ ६६ ।। इति पदसंस्कारः । 'दिस्सई' इत्यादि, इह तावत् प्रथममनन्तरोपनिधया दृश्यमानदलं निरूपयति । तत्र दृश्यमानं दल नाम तदानीं निक्षिप्यमाणदलेन सहितं पुरातनसत्तागतदलम् । अपूर्वस्पर्धकेष यन्निक्षिप्यमाणं दलं तदेव दृश्यमानं दलं भवति, तत्र पुरातनसत्तागतदलस्या ऽभावदर्शनात् । पूर्वस्पर्धकेप त्विदानी निक्षिप्यमाणदलेन सहितं पुरातनसत्तागतदलिकं दृश्यमानं भवति । तत्र 'पुवापुवेसु" ति 'पूर्वापर्वेषु' पूर्वस्पर्धकेष्वपूर्वस्पर्ध केषु च 'गोपुच्छेन' गोपुच्छाकारेण 'दलिक' प्रदेशाग्रं दृश्यते । अयं भावः-प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणायां दृश्यमानं दलं प्रभूतं भवति । ततः प्रथमाऽपूर्वस्पर्धकद्वितीयवर्गणायां विशेषहीनं दृश्यमानं दलं भवति, निक्षिप्यमाणदलस्य विशेषहीनत्वात् । अयं हेतुरग्रेऽपि यथास्थानं योजनीयः । ततोऽपि तृतीयवर्गणायां दृश्यमानं दलं विशेषहीनं भवति, एवं विशेषहीनक्रमेण तावद्वक्तव्यम् , यावच्चरमा-ऽपर्वस्पर्धकस्य चरमवर्गणा । अपूर्वस्पर्धकचरमवर्गणातः प्रथमपूर्वस्पर्धकप्रथमवर्गणायां दृश्यमानं दलं विशेषहीनं भवति, ततोऽपि प्रथमपूर्वस्पर्धकद्वितीयवर्गणायां विशेषहीनं दृश्यमानं दलं विद्यते । एवं विशेषहीनं विशेषहीनं तावद्वाच्यम्, यावच्चरमपूर्वस्पध कस्य चरमवर्गणा । विशेषश्चा-ऽनन्ततमभागो ज्ञातव्यः । अथ परम्परोपनिधया दृश्यमानं दलं प्ररूपयितुकाम आह- "पुव्वाईअ" इत्यादि, 'पर्वादौ' पदैकदेशेन पदसमदायस्य गम्यमानत्वात् पूर्वस्पधकादिवर्गणायां प्रथमपूर्वस्पर्धकप्रथमवर्गणायामित्यर्थः, 'असंख्यभागविहीनम्' असंख्येयतमभागेन न्यूनं दलं दृश्यते । उक्त च कषायप्राभृती -"तम्हि चेव पढमसमये जं दिस्सदि पदेसग्गं, तमपुव्वफद्दयाणं पढमाए वग्गणाए बहुअं। पुव्वफद्दयआदिवग्गणाए विसेसहोणं ।" इति विशेषथाना-ऽसंख्येयभागो बोद्धव्यः। कुतः ? इति चेत्, शृणुत-अपूर्वस्पर्धकानामेकद्विगुणहानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org