________________
१३४ ]
खबगसेढी
[ गाथा-६८ जघन्यातीत्थापनाया उपरितनेषु स्पर्धाकेषु सकलदलं सत्तागतसर्वदलस्या-ऽनन्ततमभागमात्रं संभवति । न च जघन्या-ऽतीत्थापनायामनन्तद्विगुणहानिस्पर्धकान्यसिद्धानीति वाच्यम्, तथाविधाल्पबहुत्वदर्शनात् । तथाहि-एकद्विगुणहानिस्पर्धकतो-ऽनन्तगुणानि स्पर्धकानि जघन्या-ऽतीत्थापनायो भवन्ति । तथा-चाऽत्र कषापप्राभृतचूर्णि:-"सव्वत्थोवाणि पदेसगुणहाणिहाणंतरफद्दयाणि, जहण्णओ णिक्खेवो अणंतगुणो, जहणिया अइच्छावणा अणंतगुणा।" इति तथैव कर्मप्रकृतिचूर्णावपि भणितम्-"सव्वत्थोवं पदेसगुणहाणिट्ठाणंतरं । जहण्णओ णिक्वेवो अणंतगुणो । जहण्णिता अतित्थावणा अणंतगुणा।” तेन जघन्यातीत्थापनायामेकद्विगुणहानिस्पर्धकतो.ऽनन्तगुणानि स्पर्धकानि भवन्तीतिसिद्धम्।।
ननु गृह्णातु सकलसत्तागतदलस्याऽनन्तभागप्रमितं दलमपूर्वस्पर्धकनिर्वृत्तये विरोधाभावादिति चेद्, उच्यते-अपूर्वस्पर्धकनिव त्तये सकलसत्तागतदलस्या-ऽनन्ततमभागेऽभ्युपगम्यमाने सत्यपूर्व स्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायां दलमनन्तगुणं स्यात्, अपूर्वस्पर्धकार्थ गृहीतस्याऽनन्ततमभागप्रमितदलस्यैकद्विगुणहानिस्पर्धकसत्काऽसंख्येयभागमात्रा ऽपूर्वस्पर्धकेषु प्रक्षेपात् । न चा-ऽस्त्वपूर्वस्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायामनन्तगुणं दलमिति वाच्यम्, विरोधोपलम्भात् । तथाहि-यद्यपूर्वस्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायां दलिकमनन्तगुणं स्वीक्रियेत, तर्हि पूर्वाऽपूर्वयोः स्पर्धकयोदृश्यमानदलमेकगोपुच्छाकारेण न स्यात्, अपूर्वस्पर्धकचरमवर्गणातः पूर्वस्पर्धकप्रथमवर्गणायां दृश्यमानदलस्या-ऽनन्तगुणत्वप्रसङ्गात् । प्रतिपादयिष्यते च एकोनसप्ततिमगाथया पूर्वापूर्वम्पर्धकयोदृश्यमानदलमेकगोपुच्छाकारेण, तेन सह विरोधः स्यादित्यर्थः । किञ्च कषायमाभृतचूर्णी अपूर्वस्पर्धकप्रथमवर्गणातो-ऽपि पूर्वस्पर्धकप्रथमवर्गणायां दलं विशेषहीनमेवाऽभिहितम्, तथा चाऽत्र कषायप्राभूतचूणिः- "तम्हि चेव पढमसमए जं दिस्सदि पदेसरगं, तमपुवफहयाणं पढमाए वग्गणाए बहुअं, पुष्वफद्दयआदिवग्गणाए विसेसहीणं ।" इति । तेन सहा-ऽपि विरोधः स्यात् ।
केचित्तु प्रथमपूर्वस्पर्धकप्रथमवर्गणाया अधस्तादनन्तस्पर्धकान्यन्तरयित्वा-ऽपूर्वस्पर्धकानि निवर्तयति, अन्तरितस्पर्धकानि पुनः शून्यरूपेण परित्यज्य न निवर्तयति। तावन्ति स्पर्धकान्यतीत्थापनात्वेन मन्तव्यानीत्याहुः, तदपि नातिक्षोदक्षमम् । तथा-ऽभ्युगमेऽपूर्वस्पर्धकार्थ गृह्यमाणस्याऽपकर्षितदलसत्का-संख्येयभागमितस्य दलस्या-ऽतीत्थापना सूपपद्यत । किन्त्वपकर्षितदलसत्काऽसंख्येयबहुमागप्रमितदलिकस्य पूर्वस्पर्धकेषु निक्षिप्यमाणस्याऽतीत्थापना घटां कथमृच्छेत् ? तेन तथास्त्राभाव्यादेवा-ऽस्मिन् प्रस्तावेऽनुभागाऽपवर्तनाऽतीत्थापनां विनाऽपि संभवति । तत्त्वं तु बहुश्रुता विदन्ति ।
इत्थमविशेषेणसत्तागतसर्वपूर्वस्पर्धकेभ्यो ऽसंख्येयमागमात्र दलं गृहीत्वा-ऽपूर्वस्पर्घकानि निवर्तयति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org