________________
अपूर्वस्पर्धकेषु दीयमानदलम् ] अश्वकर्णकरणाधिकारः
[ १३३ अश्वकर्णकरणाद्धाप्रथमसमये-ऽपूर्वस्पर्धकेष्वनुभागनिरूपणं विधाय दीयमानं प्रदेशाग्रमभिधातुमना आह
देइ अपुव्वेसु विसेसूणकमेणं दलं तो देइ । पुबाईश्र असंखगुणूणं सेसासु उण विसेसूणं ॥६॥ (गीतिः)
ददात्यपूर्वेषु विशेषोनक्रमेण दलं ततो ददाति ।
पूर्वादौ असंख्यगुणोनं शेषासु पुनर्विशेषोनम ।। इति पदसंस्कारः। 'देई' इत्यादि, 'अपूर्वेषु' प्रक्रमाद् अश्वकर्णकरणाद्धाप्रथमसमये-ऽपूर्वस्पर्धकेषु 'दलं' प्रदेशाग्रं 'विशेषोनक्रमेण' विशेषहीनक्रमेण ददाति । इदमुक्तं भवति-अश्वकर्णकरणाद्धाप्रथमसमये सर्वपूर्वस्पधेकेभ्य उत्कर्षणापकर्षणभागहारेण विभज्यैकभागमात्रं दलं गृहीत्वा गृहीतं भूयः पल्योपमा-ऽसंख्येयभागेन खण्डयित्वा बहुभागप्रमाणं दलं पूर्वस्पर्धकेषु निक्षेप्तुं स्थापयति । शेषमेकभागप्रमितं दलं गृहीत्वा प्रथमपूर्वस्पर्धकप्रथमवर्गणागतदलिकप्रमितं सकलाःपूर्वस्पर्धकवर्गणाप्रमाणैश्चयैरधिकं दलं प्रथमा-ऽपूर्वस्पर्धकप्रथमवर्गणायां ददाति, तच्च प्रभूतं भवति, तत एकचयेन हीनं दलं प्रथमा-ऽपूर्वस्पर्धकद्वितीयवर्गणायां ददाति । तत एकचयेन हीनं दलं प्रथमा- पूर्वस्पर्धकतृतीयवर्गणायां ददाति । एवमुत्तरोत्तरवर्गणायामेकैकचयेन हीनं हीनतरं दलं तावत् प्रक्षिपति, यावत् चरमा-ऽपूर्वस्पर्धकस्य चरमवर्गणा । द्वाभ्यां च द्विगुणहानिभ्यां प्रथमा-ऽपूर्वस्पर्धकप्रथमवर्गणागतदले विभक्ते एकचयदलं लभ्यते, तच्चा-ऽनन्ततमभागप्रमाणं भवति । तेनोत्तरोत्तरवर्गणायां विशेषहीनं दलं दीयते इति सिध्यति । उक्तं च कषायप्राभृतचूर्णी-“पढमसमये णिव्वत्तिज्जमाणगेसु अपुव्वफद्दएसु पुव्वफद्दएहिंतो ओकड्डियूण पदेसग्गमपुव्वफद्दयाणमादिवग्गणाए बहुअं देदि, विदियाए वग्गणाए विसेसहोणं देदि । एवमणंतरागंतरेण गंतूण चरिमाए अपुव्वफद्दयवग्गणाए विसेसहोणं देदि।" इति । इत्थमनन्तरोपनिधयोत्तरोत्तरवर्गणायामनन्ततमभागमितेनैकैकचयेन हीनं दलं प्रक्षिपति । परम्परोपनिधया पुनः प्रथमा-ऽपूर्वस्पर्धकप्रथमवर्गणातश्चरमा-ऽपूर्वस्पर्धकचरमवर्गणायामसंख्येयभागहीनं प्रदेशाग्रं ददाति, नाधिकम्, निवेत्येमाना-ऽपूर्वस्पर्धकानामेकद्विगुणहानिगतस्पर्धकसत्का-ऽसंख्येयभागकल्पत्वात् । ___अत्र केचित् जघन्यस्पर्धकतः प्रभृति जघन्याऽतीत्थापनामात्राणि मन्दानुभागकान्यनन्तानि स्पर्घकानि विमुच्योपरितनपूर्वस्पर्धकेभ्यो-ऽसंख्येयभागप्रमाणं प्रदेशाग्रं गृहीत्वाऽपूर्वस्पर्धकानि करोतीत्याहुः, तन्न घटते, तथाहि-उपरितनस्पर्धकगता-ऽसंख्येयभागमितदलादपूर्वस्पर्धकनिचौ स्वीक्रियमाणायामपूर्वस्पर्धकेषु सकलं दीयमानं दलं सत्तागतदलस्या-ऽनन्ततमभागमात्रं स्यात् । कथम् ? इति चेत् , उच्यते--जघन्या-ऽतीत्थापनायामनन्तद्विगुणाहानिस्पर्धकानां दर्शनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org