________________
१३० ]
खवगसेढी
[ गाथा-६७ भागा मायायाश्चरमाऽपूर्वस्पर्धकस्य प्रथमवर्गणायां भवन्ति । एवं मानक्रोधयोरपि चरमा- पूर्वस्पर्धकप्रथमवर्गणायां रसाविभागा मिथस्तुल्या वक्तव्याः। यदुक्तं कषायप्राभूतचूर्णी-"एवं चदुण्हं पि कसायाणं जाणि अपुव्वफद्दयाणि, तत्थ चरिमस्स अपुवफद्दयस्स आदिवग्गणाए अविभागपडिछेदग्गं चदुण्हं पि कसायाणं तुल्लमणंतगुणं " इति ।।
ननु कषायचतुष्कस्य जघन्यायां वर्गणायां केन क्रमेण रसाविभागा भवन्ति ? इत्यत आह–'लोहाईण' इत्यादि, लोभादीनाम् 'अणौ' प्रथमाऽपूर्वस्पर्धकानां जघन्यवर्गणायाम् 'अविभागाः' रसा-ऽविभागाः खलु 'विशेषाधिकक्रमाः' विशेषेणा-ऽधिकः क्रमो येगा ते विशेषाधिकक्रमाः, भवन्तीति गम्यते । इदमुक्तं भवति-अश्वकर्णकरणाद्धाप्रथमसमये लोभस्य प्रथमा- पूर्वस्पर्धकजधन्यवर्गणायां रसाविभागाः स्तोका भवन्ति, ततो मायायाः प्रथमाऽपूर्वस्पर्धकजघन्यवर्गणायां रसाविभागा विशेषाधिका भवन्ति, ततो मानस्याऽपूर्वस्पर्धकजधन्यवर्गणायां रसाविभागा विशेषाधिका भवन्ति, ततोऽपि क्रोधस्याऽपूर्वस्पर्धकजघन्यवर्गणायां रसाविभागा विशेषाधिका भवन्ति । कथमेतदवसीयते ? इति चेत्, उच्यते-संज्वलनचतुष्कस्य चरमाऽपूर्वस्पर्धकानां प्रथमवर्गणा रसाविभागानाश्रित्य मिथः समानाः, संज्वलनक्रोधादीनामपूर्व स्पर्धकानि पुनः क्रमेण विशेषाधिकानि भवन्तीत्यनुपदमुक्तम् । तत्र चरमापूर्वस्पर्धकप्रथमवर्गणागतरसाविभागाः स्वस्त्रापूर्वस्पर्धकराशिना भज्यन्ते, तदा लोभादीनां प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणाप्रतिबद्धरसाविभागाः प्राप्यन्ते, प्रथमाऽपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागतो द्वितीयाद्यपूर्वस्पर्धकप्रथमवर्गणागतरसाविभागानां द्विगुणादिक्रमेणावस्थितत्वात् । अनया रीत्या लोभादीनामपूर्वस्पर्धकानामादिवर्गसायां लब्धाः प्रथमवर्गणागतरसाविभागाः क्रमेण विशेषाधिका भवन्ति, भाज्यराशेः समानत्वे सति भाजकस्य वैषम्यात् । उक्त च कषायमाभृतचूर्णी-"तेसिं चेव पढमसमए णिव्वत्तिदाणमपुव्वफद्दयाणं लोभस्स आदिवग्गणाए अविभागपडिच्छेदग्गं थोवं । मायाए आदिवग्गणाए अविभागपडिच्छेदग्गं विसेसाहियं । माणस्स आदिवग्गणाए अविभागपडिच्छेदग्गं विसेसाहियं । कोहस्स आदिवग्गणाए अविभागपडिच्छेदग्गं विसेसाहियं।" इति । इदन्त्ववधेयम्-यथा संज्वलनचतुष्कस्य चरमाऽपूर्वस्पर्धकप्रथमवर्गणासु रसाविभागाः परस्परं तुल्या भवन्ति, तथैवाऽनन्तापूर्वस्पर्धकप्रथमवर्गणासु रसाविभागा मिथस्तुल्या भवन्ति, किन्तु क्रोधस्य यावन्त्यपूर्वस्पर्धकानि व्यतिक्रम्या-ऽपूर्वस्पर्धकस्य प्रथमवर्गणायां रसाविभागाश्चिन्त्येरन् , ततो मानस्याधिकान्यपूर्वस्पर्धकानि गत्वाऽपूर्वस्पर्धकस्य प्रथमवर्गणायां रसाविभागाश्चिन्तनीयाः। ततो मायाया अधिकान्यपूर्वस्पर्धकानि वजित्वाऽपूर्वस्पर्धकस्य प्रथमवर्गणायां विमर्शनीयाः । ततो लोभस्याधिकान्यपूर्वस्पर्धकानि व्यतिक्रम्याऽपूर्वस्पर्धकप्रथमवर्गणायां रसाविभागाश्चिन्तनीयाः। तद्यथा-क्रोधस्य प्रथमाऽपूर्वस्पर्धकजघन्यवर्गणाप्रतिबद्धरसाविभागतो मानस्य प्रथमापूर्वस्पर्धकप्रथमवर्गणागतरसाविभागान् विशोध्य में
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org