________________
अपूर्वस्पर्धकाल्पबहुत्वम् ] अश्वकर्णकरणाधिकारः
[१२६ ननु संज्वलनचतुष्कस्या- पूर्वस्पर्धकान्येकद्विगुणहानिगतस्पर्धकानामसंख्येयभागमितानि करोति, तत्र कि क्रोधादीनामपूर्वस्पर्धकानि मिथस्तुल्यानि निर्वर्तयति, उता-ऽस्ति कश्चिद् विशेषः ! इत्यत आह
कोहाईण अपुव्वाणि फड्डगाइं अणुकमेण । कुणए विसेसअहियाई पढमखणे य अस्सकण्णस्स ॥६६॥ (गीतिः)
क्रोधादीनामपूर्वाणि स्पर्धकान्यनुक्रमेण ।
करोति विशेषाधिकानि प्रथमक्षणे चाश्वकर्णस्य ॥६६॥ इति पदसंस्कारः। - 'कोहाईण' इत्यादि, 'क्रोधादीनां' क्रोधमानमायालोमरूपाणां चतुर्णा संज्वलनकषायाणामपूर्वाणि स्पर्धकानि 'अनुक्रम' यथोत्तरं विशेषाधिकानि 'अश्वकर्णस्य पदैकदेशे पदसमुदायस्योपचाराद् अश्वकर्णकरणाद्धायाः 'प्रथमक्षणे' प्रथमसमये 'करोति' निर्वर्तयति । इदमुक्तं भवतिअश्वकर्णकरणाद्धापथमसमये क्रोधस्या-ऽपूर्वस्पर्धकानि स्तोकानि निर्वर्तयति, ततो विशेषाधिकानि मानस्य, आधिक्यं चाऽनन्ततमभागेन ज्ञातव्यम् । एवमुत्तरत्राऽपि । मानस्याऽपूर्वस्पर्धकतो मायाया अपूर्वस्पर्धकानि विशेषाधिकानि निर्वर्तयति, ततोऽपि लोभस्य विशेषाधिकानि । उक्तं च कषायप्राभूतचूर्णी-"पहमसमए जाणि अपुव्वफद्दयाणि णिव्वत्तिदाणि, तत्थ कोधस्स थोवाणि, माणस्स अपुव्वफद्दयाणि विसेसाहियाणि, मायाए अपुन्वफदयाणि विसेसाहियाणि. लोभस्स अपुवफद्दयाणि विसेसाहियाणि, विसेसो अणंतभागो।” इति ॥६६॥
ननु संज्वलनक्रोधादीनां निर्वय॑मानाऽपूर्वस्पर्धकानां प्रथमवर्गणायां रसाऽ-विभागा मिथस्तुल्या भवन्ति, उत विषमाः १ इत्यत आह
अणुभागे चरिमश्रपुब्वाण हवइ पढमवग्गणा तुल्ला। लोहाईण अणूए अविभागा खलु विसेसअहियकमा ॥६७॥ (गीतिः)
अनुभागे चरमा-ऽपूर्वेषां भवति प्रथमवर्गणा तुल्या।।
लोभादीनामणौ अविभागाः खलु विशेषाधिकक्रमाः । ॥६॥ इति पदसंस्कारः। 'अणुभागे' इत्यादि, तत्र 'लोहाईण' त्ति 'लोभादीनां' लोभमायामानक्रोधलक्षणानां कषायाणां 'चरमाऽपूर्वेषां' चरमाऽपूर्वस्पर्धकानाम् 'अनुभागे' अनुभागविषया प्रथमवर्गणा 'तुल्या भवति' रसाऽविभागानाश्रित्य समाना भवतीत्यर्थः । अश्वकर्णकरणाद्धाप्रथमसमये लोभस्य चरमा-ऽपूर्वस्पर्धकस्य प्रथमवर्गणायां यावन्तो रसाऽविभागा भवन्ति, वावन्त एव रसावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org